आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 283, कुल 399 में से
संदर्भ में पढ़ें२७२ आपस्तम्बधर्मसूत्रे [ (प.९०) क.२१. मध्यात्मपटलो (१-२२. २३) क्रमन्विच्छेत् उपासीतेति। तदेवं ज्ञानबलावल- म्बनेन हतविधिनिषेधा ये स्वैरं प्रवर्तन्ते सिद्धाः तेषां मतमुपन्य- स्तम् ॥ १३ ॥ अथैतेषामेव स्वैरचारिणां (१) किं तत्र प्रमाणम् ? तत्राह-- बुद्धे क्षेमप्रापणम् ॥ १४ ॥ आत्मनि बुद्धेऽवगते सति तदेव ज्ञानं सर्वमशुभं प्रक्षाल्य क्षेमं प्रा- पयति । श्रूयते हि-- (२)'न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा । न कर्मणा लिप्यते पापकेने' ति (३) 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' इति च ॥ स्मर्यते च-- '(४)यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ इति ॥ १४ ॥ तदिदं निराकरोति-- तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १५॥ यानि यतेरेव कर्तव्यप्रतिपादनपराणि शास्त्राणि, तैरेव तद्विप्रतिषिद्धम् । तत्र मनुः- (५)क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ इति अतो यतिमेव प्रकृत्य यानि विहितानि कर्माणि तानि कर्तव्या नि । यानि च निषिद्धानि तानि च वर्जनीयानि ॥ १५ ॥ 'बुद्धे क्षेमप्रापण' मित्येतत् प्रत्यक्षविरुद्धमित्याह- बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १६ ॥ आत्मबोधमात्रेण चेत् क्षेमं प्राप्यते, तदा इहैव शरीरे दुःखं नोपलभेत ज्ञानी । न चैतदस्ति । न हि ज्ञानिनां मूर्धाभिषिक्तमन्द्योऽपि क्षुधादुःख- मेव तावत् क्षणमात्रमपि सोढुं प्रभवति ॥ १६ ॥ १. किंन्नाणम् इति. च. मु २. बृ उ ७ ४ २३. तै. ब्रा २ १२. १४ ३. छान्दो ५ २४. ३. ४. श्रीमद्भग. ग. ४, ३७ ५. म. स्मृ. ६. ४८, ५०