भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 30, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 30

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १९ सति सम्भवे रहःशीलः स्यात् ॥ १४ ॥ गुरोरुदाचारेष्वकर्ता स्वैरिकर्माणि ॥ १५ ॥ येषु प्रदेशेषु गुरुरुदाचरति पौनःपुन्येन चरति तेषु स्वैरिकर्माणि मैत्रप्रसाधनादीनि न कुर्यात् ॥ १५ ॥ स्त्रीभिर्यावदर्थसम्भाषी ॥ १६ ॥ स्त्रीभिस्सह(१)यावत्प्रयोजनं तावदेव सम्भाषेत । न प्रसक्तानुप्र- सक्तमतिचिरम् । (२) ‘बलवानिन्द्रियग्रामो विद्वांसमपि कर्षती’ति । अतिबालाभिरतिवृद्धाभिश्च न दोषः ॥ १६ ॥ मृदुः ॥ १७ ॥ क्षमावान् । १७ ॥ शान्तः ॥ १८ ॥ इन्द्रियाणामसद्विषये प्रवृत्त्यभावः शमः तद्वान् शान्तः ॥ १८ ॥ दान्तः ॥ १९ ॥ विहितेषु कर्मस्वग्लानिर्दमः । तद्वान् दान्तः ॥ १९ ॥ ह्रीमान् ॥ २० ॥ ह्रीर्लज्जा तद्वान् ॥ २० ॥ दृढधृतिः ॥ २१ ॥ लब्धे नष्टे मृते वा धृतावेवावस्थितः स्यात् न हृष्येत् न वाविषीदेत्॥ अग्लॉस्नुः ॥ २२ ॥ उत्साहसम्पन्नः । (३)ग्लाजिस्थश्च गस्नुः” । अत्रानुस्वारः छान्दसोऽ- पपाठो वा ॥ २२ ॥ अक्रोधनः ॥ २३ ॥ न कस्मैचिदपि कुप्येत् ॥ २३ ॥ अनसूयुः ॥ २४ ॥ पराभ्युदयानुलन्तापः असूया । तच्छीलो न स्यात् ॥ २४ ॥ १. यावत्प्रयोजनमेव २ मनु. स्मृ. २. २१५. ३. पा. सू. ३. २. १३९.