आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 42, कुल 399 में से
संदर्भ में पढ़ेंअभिवादनम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३१ र्षन् मनसा निर्दयेन शिवेन वा ध्यायति-इत्थमिदमस्याऽस्त्विति, तथैव तद्भू- -वति । तथा यत्किञ्च सङ्कल्पयन्वाचा (१)क्रूरया मधुरया वा आह— 'इत्थमिदमस्यास्त्विति, तथैव तद्भवति । एव यत्किञ्च सङ्कल्पयन् चक्षुषा घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मज्ञाः ॥ ८ ॥ अवश्यं धर्मयुक्तेनाध्येतव्यमित्युक्तम् । इदानीं ते धर्मा लक्षणतस्त्रि- विधा इत्याह— गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसं- -वृत्ति(२)रिति ॥ ९ ॥ यैरनुष्ठितैः गुरुः प्रसीदति तानि गुरुप्रसादनीयानि पादप्रक्षालनादी- नि कर्माणि । स्वस्तीत्यविनाशिनाम । तत्प्राप्तिसाधनं स्वस्त्ययनम् । तच्च त्रिविधंदृष्टार्थमदृष्टार्थमुभयार्थं चेति । दृष्टार्थं बाहुनदीतरणादिनिषेधः । अदृष्टार्थं क्षारादिनिषेधः । उभयार्थं भिक्षाचरणादि । अध्ययनसम्वृत्ति- रधीतस्य वेदस्याऽभ्यासः ॥ ९ ॥ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि ॥ १० ॥ एतेभ्यः अन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणो, न कर्तव्यानीत्यर्थः ॥१०॥ स्वाध्यायधृग्धर्मरुचिस्तपस्व्यृजुर्मृदुस्सिद्ध्यति ब्रह्मचारी ॥ ११ ॥ स्वाध्यायधृक् अधीतस्य(३)वेदस्य धारयिता अविस्मर्ता । धर्मे रुचि- र्यस्य स धर्मरुचिः । तपस्वी नियमेषु तपश्शब्दः तद्वान् । ऋजुः अमायावी । मृदु । क्षमावान् । एवम्भूतो ब्रह्मचारी सिद्ध्यति सिद्धिं प्राप्नोति । उक्ता सिद्धिः(४)'अथो यत्किञ्च मनसे 'ति । तत्रोक्तानां पुनर्वचनमादरार्थम् । तदनुष्ठाने फलभूमा, अतिक्रमे च दोषभूमेति तात्पर्यम् ॥ ११ ॥ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभि- वादनमभिवादयीताऽसावहं भो, इति ॥ १२ ॥ सदा प्रतिदिनं महान्तमपररात्रं रात्रेः पश्चिमे याम उत्तिष्ठेत् । उत्थाय च १. घोरया इति. क. पु २. अयं 'इति' शब्द उत्तरसूत्रस्यादौ पठितः क० पुस्तके ३ 'स्वाध्यायस्य' इति क. ख. पु. ४. आप. ध १. ५. ८.