आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 45, कुल 399 में से
संदर्भ में पढ़ें३४ आपस्तम्बधर्मसूत्रे [प्र.२,क.५ ननु किमिदमुपसंग्रहणम् ? तदाह- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् ॥ २१ ॥ आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य, अधिशब्द उपरिभावे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिकं सगु- ल्फम् । साङ्गुष्ठमित्यन्ये । उपसंगृह्णीयात् । इदमुपसंग्रहणम् । एतत्कुर्यात्२१॥ उभाभ्यामेवोभावभिपीडयत उपसंग्राह्यावित्येके ॥२२॥ उभाभ्यां पाणिभ्यां उभावेवाऽऽचार्यस्य पादौ अभिपीडयतो माणवकस्य उपसंग्राह्यावित्येके मन्यन्ते । अभिपीडयत इति "(१)कृत्यानां कर्तरि"इति कर्तरि षष्ठी । अत्र मनुः- (२)'व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ इति ॥ २२ ॥ सर्वाह्नं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २३ ॥ सर्वे च तदहश्च सर्वाह्नम् । (३)'राजाहस्सखिभ्यष्टच् ।' (४)'अहोऽह्न एतेभ्य' इत्याहादेशः । (५)'अह्नोऽदन्ता'दिति णत्वम् । अत्यन्तसंयोगे द्वितीया ।' सर्वाह्नं सदा सुयुक्तः सुसमाहितः अनन्यचित्तः । अध्ययनादनन्तरः नान्तरयतीत्यनन्तरः । अध्ययनाद्यथा आत्मानं नान्तरयति यथा अ ध्ययनान्न विच्छिद्येत तथा स्यात् । अध्याये स्वाध्यायकाले । अध्याय इत्यनुवादः । (६)'मनसा चानध्याय' इति विशेषविधानात् । 'अध्याये' दिति प्रायेण पठन्ति । तत्र तकारोऽपपाठश्छान्दसो वा ॥ २३ ॥ तथा गुरुकर्मसु ॥ २४ ॥ गुरुकर्मसु च तथा स्यात् सुयुक्तोऽनन्तरश्च स्यात् ॥ २४ ॥ १. पा. सू. २. ३. ७१ २. म. स्मृ. २. ७२. ३. पा० सू० ५. ४ ९१. राजन्शब्दान्तादहन्शब्दान्तात् सखिशब्दान्ताच्च तत्पुरुषात् टच् स्यात् इति सूत्रार्थः ॥ ४. सर्वै, कदेश, सख्यात, पुण्यशब्देभ्यः परस्याहन्शब्दस्याह इत्यादेशस्स्यात् समासान्ते परे इति सूत्रार्थ । ५. ९ ४ ७. अदन्तपूर्वपदस्थाद्रेफात् परस्याहादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ६. आप. ध. १. ५. २६.