आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 44, कुल 399 में से
संदर्भ में पढ़ेंपादोपसङ्ग्रहणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३३ (१)प्रत्यभिवादेऽशूद्रे' इति पाणिनीयस्मृतिः । तत्र (२)'वाक्यस्य टे' रि- त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य टेः प्लुतः । 'आयु- ष्मान् भव सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशान्नाम्नश्च पश्चाद- कारः । तथा च मनुः- (३)आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति । 'आयुष्मान् भव सौम्य देवदत्त ३ अ' इति प्रयोगः । शम्भुर्विष्णुः पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते 'एचोऽप्र- गृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ' इत्ययं विधिर्भवति । अन्ते अकारः । (४) 'तयोर्र्वावचि संहितायाम्' इति यकारवकारौ च भव- तः-शम्भा ३ व, विष्णा ३ व, पिनाकपाणा ३ य, चक्रपाणा ३ य, इति । अत्र सूत्रे 'प्रत्यभिवादने चे'ति चकारस्यार्थं न पश्यामः । अपर आह—'अभिवादने प्रत्यभिवादने च प्लावन'मिति । अस्मि- न्नपि पक्षे द्वन्द्वेनाभिहितत्वाच्चशब्दोऽनर्थक एव । अभिवादने च शास्त्रान्तरे न क्वापि प्लुतो विहितः । तस्मादनर्थक एव चकारः । अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥ उदिते त्वादित्य आचार्येण समेत्योपसंग्रहणम् ॥१८॥ उदिते त्वादित्ये आचार्येण अध्ययनार्थं समेत्य वक्ष्यमाणेण विधिनोपसंग्रहण कुर्यात् ॥ १८ ॥ सदैवाऽभिवादनम् ॥ १९ ॥ अन्यदा सर्वदा पूर्वोक्तप्रकारेणाभिवादनमेव । अयमनुवाद उत्तर- विवक्षया ॥ १९ ॥ उपसंग्राह्य आचार्य इत्येके ॥२०॥ अभिवादनप्रसङ्गे सदैव उपसंग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥ १ पा सू ८. २. ८३ शूद्रभिन्नविषये प्रत्यभिवादे यद्वाक्य 'आयुष्मान् भव सौ- म्य" इत्यादिरूप तस्य टेः प्लुतस्स्यात्, स चोदात्त इति सूत्रार्थः । २. पा. सू ८. २ ८२ ३. मनु. स्मृ २ १२५. ४. पा. सू ८ २. १०८. इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् इति सूत्रार्थः । आप० ध० ५