आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 60, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४९ (१)मातरं पितरमाचार्यमग्नींश्च गृहाणि च रिक्त- पाणिर्नोपगच्छेद्राजानं चेन्न श्रुतामिति ॥ २३ ॥ तस्मिन्गुरोर्वृत्तिः ॥ २४ ॥ तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृत्तेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥ पुत्रमिवैनमनुकाङ्क्षन् सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥ एनं शिष्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुकाङ्क्षन् सर्वेषु धर्मेषु किञ्चिदप्यनपच्छादयमानः अगूहन् सुयुक्तः सुष्ठ्ववहितः तत्परो भूत्वा विद्यां ग्राहयेत् ॥ २५ ॥ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ॥२६॥ न चैनं शिष्यमध्ययनविघ्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरुन्ध्यात् । (३)उपरो- धः अस्वन्त्रीकरणम् । 'अनापत्स्व' तिवचनादापद्यध्ययनविघातेना- ऽप्युपरोधे न दोषः ॥ २६ ॥ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः ॥ २७ ॥ 'आपद्यमान' इत्यन्तर्भावितण्यर्थः । योऽन्तेवासी विनिहितात्मा द्वयोरा- चार्ययोः(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाऽनेनाऽयं प्रदेशः सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५) । अपर आह-योऽन्तेवासी वाङ्मनःकर्मभिरनैपुणमापद्यमानो गुरौ वि- सदृशं निहितात्मा भवति अनुरूपं न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥ आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः॥२८॥ आचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा- णः तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥ १. इदं सूत्रं क. पुस्तक एव दृश्यते । नान्यत्र । २. अ+यासादिषु इति ङ. पु. ३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु. । ५. “अत्र मनुः-धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे इति-”इत्यधिकः पाठो दृश्यते ख. पुस्तके आप०ध० ७