आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 61, कुल 399 में से
संदर्भ में पढ़ें५० आपस्तम्बधर्मसूत्रे [ (प.२.) क.८. अपराधेषु चैनं सततमुपालभेत ॥ २९ ॥ अपराधेषु कृतेष्वेनं शिष्यं सततमुपालभेत-इदमयुक्तं त्वया कृतमिति ॥२९॥ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमानिवृत्तेः ॥ ३० ॥ अभित्रासो (१)भयोत्पादनम् । उपवासो भोजनलोपः। उदकोपस्पर्शनं शीतोदकेन स्नापनम्। अदर्शनं यथाऽऽत्मानं न पश्यति तथा करणम्। गृहप्रवेशनिषेधः। सर्वत्र ण्यन्तात् प्रत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यावत्यपराध मात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्ते- यावदसौ न ततोऽपराधा- न्निवर्तते तावदेते दण्डाः ॥ ३० ॥ निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ॥ ३१ ॥ एवं चरितब्रह्मचर्यं निवृत्तं गुरुकुलात् कृतसमावर्तनमित्यर्थः । एवंभूत- मन्येभ्यो धर्मेभ्यो यमसावाश्रमं प्रतिपित्सते तत्र तेभ्योऽनन्तरो भव यथा त्व- मन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रतिपत्तुमु- त्सृजेत् ॥ ३१ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायामष्टमी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने द्वितीयः पटलः ॥ २ ॥ १ रज्जुवेष्वादिना भयोत्पादनम् इति, ख. पु.