आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 66, कुल 399 में से
संदर्भ में पढ़ेंअनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५५ वर्धाहाणांचो रादीनामवरोधे यावता कालेन हन्यन्ते तावन्तं कालमनध्यायः ॥ २६ ॥ पृष्ठारूढः पशूनां नाऽधीयीत ॥ २७ ॥ हस्त्यश्वादीनां पशूनां पृष्ठारूढः तन्नाऽऽसीनस्सन्नाऽधीयीत ॥२७॥ अहोरात्रावमावास्यासु ॥ २८ ॥ अमावास्यासु द्वावहोरात्रौ नाऽधीयीत । तासु च पूर्वेद्युश्चतुर्दशीषु च । तथा । च मनुः(१)—'अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ।' इति ॥ २८ ॥ इत्यापस्तम्बसूत्रवृत्तावुज्ज्वलायां नवमी कण्डिका ॥ चातुर्मासीषु च ॥ १ ॥ चतुर्षु मासेषु भवाश्चातुर्मास्य । संज्ञैषा तिसृणां पौर्णमासीनां यासु चातु- र्मास्यानि क्रियन्ते। काः पुनस्ताः? फाल्गुन्याषाढीकार्तिक्यः। चातुर्मास्यो यज्ञः। 'तत्र भव'इति वर्तमाने 'संज्ञायामाणि' ष्यण्प्रत्ययः । तासु चातुर्मा- सीषु पूर्ववद्द्वावहोरात्रावनध्यायः । गौतमस्तु स्वशब्देनाह(२) 'कार्तिकी फाल्गुन्याषाढी पौर्णमासी' ति । (३)पौर्णमास्यनन्तरप्रतिपत्सु च शाखान्तरवशादनध्यायः । यथा होशनाः—'पर्वणीतिहासवर्जितानां विद्यानामनध्याय' इति । 'प्रतिपत्सु न चिन्तये' दिति च । एवं चतुर्द- शीमात्रस्य वर्जने शाखान्तरं(४) मूलं मृग्यम् । तत्र याज्ञवल्क्यः— (५)'पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।' इति ॥ १ ॥ वैरमणे गुरुष्वष्टाक्य औपाकरण इति त्र्यहाः ॥ २ ॥ विरमणमुत्सर्जनं तदेव वैरमणम् । तस्मिन् वैरमणे । प्रथमान्तपाठे सप्तम्यर्थे प्रथमा । गुरुषु श्वशुरादिषु । संस्थितेष्विति प्रकरणाद्गम्यते । १. मनु. स्मृ ४. ११३. २. गौ. ध. १६. ३२. ३. पौर्णमास्यन्तरे प्रतिपत्सु च इति. ख. पु. ४. मूलम्' इति. नास्ति क. पुस्तके । मृग्यमिति नास्ति ख. पुस्तके ५. या स्मृ १. १४६. ऋतुसन्धिषु भुक्त्वा च श्राद्धिक प्रतिगृह्य च इत्याधिकः पाठः ख. पुस्तके ।