आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 70, कुल 399 में से
संदर्भ में पढ़ेंअनध्यायाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ५९ वृकजाताववान्तरभेदः । क्रोष्ट्रीत्यन्ये । लिङ्गस्याविवक्षितत्वात्पुंसोऽपि ग्रहणम् । (१)'इन्द्रो यतीन् सालावृकेभ्य' इत्यादौ दर्शनात् । सर्वत्राङ्गि- स्वरो दीर्घः । स एवायं विकृतः प्रयुक्तः । एकसृकः एकचरः सृगालः । उलूको दिवाभीतः । एतेषां च शब्दाः । वादितानि वादित्राणि वीणावेणु- मृदङ्गादीनि । तेषां च सर्वे शब्दाः । रोदनशब्दादयश्च । एते श्रूयमाणा (२)अनध्यायस्य हेतवः ॥ १९ ॥ शाखान्तरे च साम्नामनध्यायः ॥ २० ॥ वेदान्तरसकाशे(३)साम्नामनध्ययनम् । गीतिषु सामाख्या, तयो- र्गाङ्गेद्वचन इत्यन्ये ॥ २० ॥ सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् ॥ २१ ॥ आक्रोश(४)परिवादादिषु सर्वेषु शब्दकर्मसु अनध्यायः । यत्राध्ययनश- ब्देन ते संसृज्येरन् ॥ २१ ॥ छर्दयित्वा स्वप्नान्तम् ॥ २२ ॥ छर्दनं वमनम् । तत्कृत्वा स्वप्नान्तं यावन्नाऽधीयीत ॥ २२ ॥ सर्पिर्वा प्राश्य ॥ २३ ॥ अथ वा सर्पिः प्राश्याधीयीत ॥ २३ ॥ पूतिगन्धः ॥ २४ ॥ दुर्गन्ध उपलभ्यमानोऽनध्यायहेतुः ॥ २४ ॥ शुक्तञ्चाऽऽत्मसंयुक्तम् ॥ २५ ॥ यत्पक्वं कालपाकेनाऽम्लं जातं तच्छुक्तम् । तद्यावदात्मसंयुक्तं स्वोदर- स्थमजीर्णं, यावत्तदनुगुण उद्गारस्तावदनध्यायहेतुः ॥ २५ ॥ प्रदोषे च भुक्त्वा नाधीयीत ॥ २६ ॥ तेनाऽधीत्यैव भुञ्जीत ॥ २६ ॥ प्रोदकयोश्च पाण्योः ॥ २७ ॥ भुक्त्वेत्येव । भुक्त्वा यावत्प्रोदकौ पाणी आर्द्रौ तावन्नाऽधीयीत । केचित् भुक्त्वेति नानुवर्तयन्ति ॥ २७ ॥ १. तै. सं. ६. २. ७. २ या. स्मृतौ १. १४८-१५१. श्लोका द्रष्टव्याः । ३. साम नाऽध्येयम् । इति. ख. पु. ४. परिहासादिषु. इति. क. पु.