आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 69, कुल 399 में से
संदर्भ में पढ़ें५८ आपस्तम्बधर्मसूत्रे [ (प. ३.) क. १०. निमित्तमनध्यायस्य ॥ ११ ॥ सब्रह्मचारिणीत्येके ॥ १२ ॥ एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्रो- त्रियसामान्यमरणे ॥ १२ ॥ श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो वाऽनुज्ञाप्याधीयीत ॥ १३ ॥ श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याधीयीत ॥ १३ ॥ अध्यापयेद्वा ॥ १४ ॥ अध्यापयितुकामोऽध्यापयन्वेति प्रकरणाद्गम्यते । सोऽपि तमनु- ज्ञाप्याध्यापयेदिति ॥ १४ ॥ गुरुसन्निधौ “चाधीहि भो” इत्युक्त्वाऽधीयीत ॥ १५ ॥ धारणाध्ययनं पारायणाध्ययनं वा कुर्वन् गुरौ सन्निहिते सति 'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५ ॥ * अध्यापयेद्वा ॥ १६ ॥ अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ * उभयत उपसंग्रहणमधिजिगांसमानस्याधीत्य च ॥ १७॥ उभयतः अध्ययनस्याऽऽदावन्ते च उपसंग्रहणं कर्तव्यं यथाक्रम(१)मध्ये- तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ * अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव शब्दमुत्सृज्याऽधीयीत ॥ १८ ॥ बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेत्, तत्रा 'प्यधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीयीत । प्रत्ये- कमुपदेशादेकवचनम् । अधीयीरन् ॥ १८ ॥ श्वगर्दभनादास्सलावृक्येकसृकोलूकशब्दास्सर्वे वादितशब्दा रोदनगीतसामशब्दाश्च ॥१९॥ शुनां गर्दभानां च बहूनां नादः । बहुवचननिर्देशात् । सलावृकी १. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ. २ ७३ श्लोको द्रष्टव्यः ।