आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 77, कुल 399 में से
संदर्भ में पढ़ें६६ आपस्तम्बधर्मसूत्रे [(प.३.)क.११. अत एतस्मादनध्यायप्रकरणोक्तादन्यदनध्यायनिमित्तम् । परिषद्सु- मानवादिधर्मशास्त्रेषु यथोक्तं (१)तथा द्रष्टव्यम् । तत्र वासिष्ठः (२)‘दिग्दाहपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिक’ मिति । यमः- (३)‘श्लेष्मातकस्य शल्मल्या मधूकस्य तथाप्यधः । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥’ सङ्ग्रामोद्यानदेवतासमीपेषु नाधीयीतेति ॥ ३४ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्जवलायामेकादशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्जवलायां प्रथमप्रश्ने तृतीयः पटलः ॥ ३ ॥ १. तथा इति नास्ति. क. पु. २ व. स्मृ. १३ ८. दिग्नादपर्वतनादकम्पप्रपातेषु, इति मुद्रितपुस्तकपाठः । निमित्तप्रादुर्भावादारभ्याऽन्येद्युर्यावत् स एव कालः स आकालः । तत्र भवमाकालिकम् । ३. मुद्रितयमस्मृतौ बृहद्यमस्मृतौ वा नेदं वचनमुपलभ्यते ।