आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 84, कुल 399 में से
संदर्भ में पढ़ेंपञ्चयज्ञादि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७३ अपरे तु-अशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं न कर्तव्यमिति स्थिताः । पितृभ्यः स्वधाकारेण प्रदानम् आउदपात्रात् अन्नाद्यभावे उदपात्रमपि स्वधाकारेण तावद्देयम् । पात्रग्रहणात् सह पात्रेण देयम् । एष पितृयज्ञः । स्वाध्याय·(१) ‘तस्य विधि’ रित्यारभ्योक्तो नित्यस्वाध्यायः । स तु ब्रह्मयज्ञः। इतिः समाप्तौ । इत्येते महायज्ञा इति । न चायमुपदेशक्रमोऽनुष्ठान उपयुज्यते । अनुष्ठानं तु—(२)ब्रह्मयज्ञो, देवयज्ञः, पितृयज्ञो, भूतयज्ञो, मनुष्ययज्ञ इति ॥ १ ॥ पूजां प्रसङ्गादाह— पूजा वर्णज्यायसां कार्या ॥ २ ॥ वर्णतो(३) ये ज्यायांसः प्रशस्ततरा भवन्ति तेषामवरेण वर्णेन कार्या पूजा अध्वन्यनुगमनादिका उत्सवादिषु च गन्धलेपादिका ॥ २ ॥ वृद्धतराणां च ॥ ३ ॥ सजातीनामपि पूजा कार्या । तरपो निर्देशात्(४) विद्यावयःकर्म- भिर्वृद्धानां ग्रहणम् । हीनानामपीत्येके । तथा च मनुः— (५)‘शूद्रोऽपि दशमीं गत’ इति ॥ ३ ॥ पूजा कार्येत्युक्तम् । तद्विरोधी हर्षो वर्ज्य इत्याह— हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरर्कः ॥ ४ ॥ अभिमतलाभादिनिमित्तश्चित्तविकारो हर्षः । तद्युक्तो हृष्टः । स द- र्पति तृप्यति । दर्पो गर्वोऽभिमानः । दृप्तो धर्ममतिक्रामति, पूज्यपूजनादिकं प्रति स्तब्धत्वात् । खलुपुनश्शब्दौ वाक्यालङ्कारे । धर्मातिक्रमे खलु पुनर्नरको भवति १. आ. ध. ११ २२. २ शिष्टाचारोऽपि ब्रह्मयज्ञो देवयज्ञः. पितृयज्ञो. भूतयज्ञो, मनुष्ययज्ञ, इत्येवम् । न तु ब्राह्मणोक्तेनैव क्रमेणानुष्ठानम् । च. पुस्तके देवयज्ञो, भूतयज्ञः, इति पाठक्रमः । ३. अत्र प्रथमान्तस्सर्वोऽप्येकवचनान्ततया पठ्यते क. पु. ४. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदु त्तरम् ॥ इति मनूक्तैर्विद्यादिभिर्वृद्धानामित्यर्थः ॥ ५. म. स्मृ. २. १३७. दशमीं गतः नवत्यधिकां अवस्था गत इत्यर्थः । वर्षाणा शतस्य दशधा विभागे दशम्यवस्था नवत्यधिका भवति । आप० ध० १०