आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 85, कुल 399 में से
संदर्भ में पढ़ें७४ आपस्तम्बधर्मसूत्रे [(प.४.)क.१३. निरयं प्रतिपद्यते । तस्माद्धर्मातिक्रममूलभूतो हर्षो न कर्तव्यः । यद्यपि भूतदाहीयेषु (१)दोषेषु वर्जनीयेषु हर्षोऽपि, (२)वक्ष्यते । तथापीह विशे- षेण हर्षस्य वर्जनार्थोऽयमारम्भः । योगाङ्गत्वाद्वक्ष्यमाणस्य ॥ ४ ॥ न समावृत्ते समादेशो विद्यते ॥ ५ ॥ समावृत्तं शिष्यं प्रति आचार्येण समादेशो न देयः-इदं त्वया कर्तव्य- मिति । यथा असमावृत्तदशायामाज्ञा दीयते-उदकुम्भमाहरेत्यादि, नैव मिदानीम् । स्वेच्छया करणे न प्रतिषेध्यम् ॥ ५ ॥ ओङ्कारस्स्वर्गद्वारं तस्माद्ब्रह्माऽध्येष्यमाण एतदादि प्रतिपद्येत ॥ ६ ॥ ओङ्कारः प्रणवः स्वर्गस्य द्वारमिव । यथा द्वारेण गृहाभ्यन्तरं प्राप्य- ते तथाऽनेन स्वर्गः । तस्मात् ब्रह्म वेदं स्वर्गसाधनमध्येष्यमाण एतदादि अना- म्नातमप्योङ्कारमादौ कृत्वा प्रतिपद्येत उपक्रमेताऽध्येतुम् ॥ ६ ॥ विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म ॥ ७ ॥ अध्ययने ऽनुपयुक्ता कथा विकथा । तां चान्यां कृत्वा एतदादि प्रति- पद्येत । एवं सति ब्रह्म वेदः लौकिक्या वाचा व्यावर्तते तया मिश्रितं न भवति ॥ ७ ॥ पुनरप्योङ्कारमेव स्तौति- यज्ञेषु चैतदादयः प्रसवाः ॥ ८ ॥ यज्ञेषु दर्शपूर्णमासादिषु एतदादयः ओङ्कारादयः प्रसवा अनुज्ञा- वाक्यानि भवन्ति ब्रह्मादीनाम्—ॐ प्रणय, ॐ निर्वप, ॐ (३)स्तु- ध्वमिति ॥ ८ ॥ लोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथा पुण्याहं स्वस्त्यृद्धिमिति ॥ ९ ॥ यथा यज्ञेष्वोङ्कारादयः प्रसवाः, लोके च भूतिकर्मसु पाणिग्रहणादिषु १. दोषेषु वर्जनीयेषु इति नास्ति ख. पु. २. आप ध. १. २३. ६. ३ सोमयागे उद्गातृप्रस्तोतृप्रतिहर्त्राह्वयान् छन्दोगान् प्रति गुणिनिष्ठगुणाभिधानरूप- स्तोत्रारम्भार्थमध्वर्युणाऽनुज्ञादानमिदम् ।