आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 86, कुल 399 में से
संदर्भ में पढ़ेंॐकारप्रशंसा ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७५ एतदादीन्येव वाक्यानि स्युः । तान्युदाहरति—यथेति । पुण्याहवाचने ॐ कर्मणः पुण्याहं भवन्तो ब्रुवन्त्वि'ति वाचयिता वदति । (१)'ॐ पुण्या- हं कर्मणोऽस्तु' इति प्रतिवक्तारः । (२)'ॐ कर्मणे स्वस्ति भवन्तो ब्रुव न्तु' इति वाचयिता । 'ॐ कर्मणे स्वस्ति' इतीतरे । (३)'ॐ कर्मण ऋद्धिं भवन्तो ब्रुवन्तु' इति वाचयिता । 'ॐ कर्मर्ध्यता'मितीतरे । तस्मादेवं प्रशस्त ॐकार इति ॥ ९॥ नाऽसमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिसह- वचनमिति परिहाप्य ॥ १० ॥ समयः शुश्रूषा, तेन विना कृच्छ्रं दुःखं दुरवधारणं अपूर्वं ग्रन्थं न कुर्वीत । क्रियासामान्यवचनः करोतिरध्ययनेऽध्यापने च वर्तते । सम- येन विना शिष्योऽपि कृच्छ्रं ग्रन्थं नाऽधीयीत । आचार्योऽपि नाध्याप- येत् । तथा च मनुः— (४)'धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे' ॥ इति । किमविशेषेण ? नेत्याह—त्रिःश्रावण त्रिसहवचनमिति परिहाप्य वर्ज यित्वा । त्रिःश्रावणमात्रे त्रिसहवचनमात्रे चान्यतरापेक्षया क्रियमाणे शुश्रूषा नाऽपेक्ष्या । ततोऽधिके सर्वत्रापेक्ष्येति ॥ १० ॥ अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति हारीतः ॥११॥ विचिकित्सा संशयः । तदभावोऽविचिकित्सा सा यावदुत्पद्यते ताव- द्ब्रह्म निगन्तव्यं नियमपूर्वमधिगन्तव्यमिति हारीतः आचार्यो मन्यते । अत्र पक्षे त्रिःश्रावणत्रिसहवचनयोरपि शुश्रूषितव्यम् । ब्रह्मग्रहणाद- ङ्गेषु नायं विधिः ॥ ११ ॥ न बहिर्वेदे गतिर्विद्यते ॥ १२ ॥ वेदाद्बहिर्भूते काव्यनाटकादिश्रवणे । गतिः शुश्रूषा न विद्यते यद्यपि तदुपयुक्तं वेदार्थज्ञाने ॥ १२ ॥ समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् ॥१३॥ १. ॐ पुण्याहं इति क.पु. २. ॐ कर्मणे स्वस्ति इति वाचयिता इति क. पु. ३. ॐ कर्मण ऋद्धिं इति क. पु ४. म स्मृ. २ ११२