आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 89, कुल 399 में से
संदर्भ में पढ़ेंद्वाङ्खौ मासौ गुरुकुले वसेदिति ॥ १ ॥ अध्ययनार्थेन यं चोदयेन्न चैनं प्रत्याचक्षीत ॥ २ ॥ यमाचार्यं माणवकोऽध्ययनं प्रयोजनमुद्दिश्य चोदयेत्-'शिष्यस्तेऽह शाधि मां त्वां प्रपन्न'मिति, स एनं माणवकं नैव प्रत्याचक्षीत। चशब्दो- ऽवधारणे ॥ २ ॥ किमविशेषेण ? नेत्याह- न चास्मिन् दोषं पश्येत् ॥ ३ ॥ चणिति निपातोऽस्ति-(१)'निपातैर्यद्यदिहन्तकुविन्नेच्चच्चेच्चणकच्चि- द्यत्रयुक्त'मिति। स चेदर्थे वर्तते। (२)'इन्द्रश्च मृडयाति न' इत्यादौ दर्शनात्। तस्यायं प्रयोगः-न चेदस्मिन् माणवके दोषमनध्याप्यताहेतुं पश्येत् ॥ ३ ॥ यदृच्छायामंसंवृत्तौ गतिरेव तस्मिन् ॥ ४ ॥ समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदृच्छया दृष्टहेतुम- न्तरेण बुद्धिमान्द्यादिनाऽध्ययनस्या (३)संवृत्तिस्स्यात् अधीतो भागो माणवकान्तरवन्नागच्छेत् तदा तस्यां यदृच्छायामंसंवृत्तौ तस्मिन्नाचार्ये गतिरेव शुश्रूषैव माणवकस्य शरणम् । तथा च मनुः-- (४)'यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥' इति । अधिकं शुश्रूषितो हि गुरुस्सर्वात्मना त शिक्षयेदिति ॥ ४ ॥ मातरि पित्र्याचार्यवच्छुश्रूषा ॥ ५ ॥ मातृग्रहणेन पितामहीप्रपितामह्योरपि ग्रहणम् । पितृग्रहणेन पि- तामहप्रपितामहयोः । सर्वे एते आचार्यवच्छुश्रूषितव्याः ॥ ५ ॥ समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः ॥ ६ ॥ उक्ताश्चानुक्ताश्च ज्येष्ठभ्रातृमातुलादयः सर्वे गुरव समावृत्तेनाहरहरुपसंग्राह्याः ॥ प्रोष्य च समागमे ॥ ७ ॥ १. पा० सू० ८. ३. १०. २. ऋ. सं २. ४१ ११. ३. समावृत्तिः इति क. पु. ४ म स्मृ २ २१८