आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 90, कुल 399 में से
संदर्भ में पढ़ेंअभिवाद्याः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ७९ यदि स्वयं प्रोष्य समागतो भवति । गुरवो वा प्रोष्य समागताः । तदापि ते उपसङ्ग्राह्याः ॥ ७ ॥ भ्रातृषु भगिनीषु च यथापूर्वमुपसङ्ग्रहणम् ॥ ८ ॥ पूर्वेणैव सिद्धे क्रमार्थं वचनम्-यथापूर्वं ज्येष्ठक्रमेणेति ॥ ८ ॥ नित्या च पूजा यथोपदेशम् ॥ ९ ॥ (१)‘पूजा वर्णज्यायसां कार्या, वृद्धतराणां चे’त्युपदेशानुरोधेन या नित्या पूजा सा यथापूर्वं वृद्धक्रमेण ॥ ९ ॥ ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाऽभिवदेत् ॥ १० ॥ (२)‘त्रिवर्षपूर्व. श्रोत्रियोऽभिवादनमर्हती’ति वक्ष्यति । तेनावरवयस ऋत्विगादयोऽप्यभिवाद्यन्ते । तानभिवाद्यमानान् प्रत्युत्थायाऽभिव देत् । नान्येष्विव सुखमासीनोऽभिवदति । वयस्त उत्कृष्ठानां तेषामिय मेव पूजा ॥ १० ॥ तूष्णीं वोपसंगृह्णीयात् ॥ ११ ॥ अथवा प्रत्युत्थाय स्वयमपि तांस्तूष्णीमुपसङ्गृह्णीयात् । विद्याचारित्राद्य पेक्षो विकल्पः ॥ ११ ॥ अथाभिवाद्या उच्यन्ते— दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हति ॥ १२ ॥ पुरेभवं पौरम् । पौरं च तत्सख्यं च पौरसख्यं सेवादिनिबन्धनं बा- न्धवं तदभिवादनस्य निमित्तम् । कीदृशम् ? दशवर्षान्तरालं, दशवर्षा- धिकः पौरस्सखा अश्रोत्रियोऽप्याभिवाद्य इति विवक्षितम् । पञ्चवर्षं तु चारणम् । सख्यमित्युपसमस्तमप्यपेक्षते । चारणशब्दः शाखाध्यायिषु रूढः । तेषां सख्यं पञ्चवर्षमभिवादनस्य निमित्तम् । (३)श्रोत्रियं वक्ष्यति । त्रिवर्षपूर्वः श्रोतियोऽभिवादनमर्हति । स त्रिवर्षपूर्वतामात्रेणाभिवादनमर्हति, न पूर्वसंस्तवमपेक्षते ॥ १२ ॥ १. आप. ध. १, १३ २, ३ २. आप. ध. १ १४. १३ ३ आप ध. २. ६. ४.