आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 94, कुल 399 में से
संदर्भ में पढ़ेंअथ पञ्चमः पटलः ॥ —————— सर्वेषामेव कर्मणां शेषभूतमाचमनं विधास्यंस्तदुपयोगिनो वि- धीनाह— उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यक- र्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् ॥ १ ॥ गुरूणामाचार्यादीनाम् , अन्येषां च वृद्धाना पूज्यानामतिथीना च उपा- सने यदा तानुपास्ते तदा, होमे साङ्गे पिण्ड्यादन्यत्र, जप्यकर्मणि जपक्रि- यायां भोजनाचमनयोश्च, स्वाध्यायाध्ययने च, यज्ञोपवीती स्यात् यज्ञोप- वीती भवेत् । वासोविन्यासविशेषो यज्ञोपवीतम्(१) 'दक्षिणं बाहुमु- द्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम्, इति ब्राह्मणम् । वाससोऽसम्भ- वेऽनुकल्पं वक्ष्यति 'अपि वा सूत्रमेवोपवीतार्थं' (२-४-२२ ) इति । मनुरप्याह— (२)'कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । इति ॥ (३)'उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ॥' इति च । एषु कर्मसु यज्ञोपवीतविधानात्कालान्तरे नावश्यम्भावः ॥ १ ॥ भूमिगतास्वप्स्वाचम्य प्रयतो भवति ॥ २ ॥ (४)आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् । अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः(५) ॥ इति मनुः । 'शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम्' इति । याज्ञवल्क्य. (६) अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिक। । दशरात्रेण शुध्यन्ति भूमिष्ठं च नवोदकम् ॥' (७)इति ।
१. तै. आ. २. १. २. म स्मृ. २. ४४. ३. म. स्मृ २ ६३. 'द्विजः' इति ख. च. पुस्तकयोः मुद्रितमनुस्मृतिपुस्तके च । ४. यज्ञोपवीतविधानात् इति. ख. पु. ५. म. स्मृ ५. १२७. या. स्मृ. १.१९२ ६ अयं श्लोको मुद्रितमनुस्मृतिपुस्तकेषु नोपलभ्यते । ७. 'मनुः' इति क. पु.