आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 95, कुल 399 में से
संदर्भ में पढ़ें८४ आपस्तम्बधर्मसूत्रे [ (प.५.) क.१५ श्रावणे मासि सम्प्राप्ते सर्वा नद्यो रजस्वलाः(१) ।' इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वप्स्वाचम्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कर्तव्यमिति ॥ २ ॥ यं वा प्रयत आचमयेत् ॥ ३ ॥ यं वा प्रयतोऽन्य आचमयेत् सोऽपि प्रयतो भवति । सर्वथा स्वयं वाम- हस्तावर्जिताभिरद्भिराचमनं न भवति । एतेन शास्त्रान्तरोक्तं कमण्ड- लुधारणमप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण वा स्वयमाचमनमाचरन्ति शिष्टाः ॥ ३ ॥ न वर्षधारास्वाचामेत् ॥ ४ ॥ पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गाभा- वात् पिपासितस्य पानप्रतिषेधार्थमिति केचित् । अपर आह-अस्मा- देव प्रतिषेधाच्छिक्यादिस्थकरकादेर्या धारा तत्र प्रायत्यार्थमाचम- न(२) भवतीति ॥ ४ ॥ तथा(३) प्रदरोदके ॥ ५ ॥ भूमेः स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिगतेऽपि नाऽऽचामेत् ॥ ५ ॥ तप्ताभिश्चाऽकारणात् ॥ ६ ॥ तप्ताभिरद्भिर्नाचामेत् अकारणात् ज्वरादौ कारणे सति न दोषः । 'तप्ताभि' रिति वचनात् शृतशीताभिरदोषः । तथा चोष्णानामेव प्र- तिषेधः स्मृतिषु (४)प्रायो भवति ॥ ६ ॥ रिक्तपाणिर्वयस उद्यम्याऽप उपस्पृशेत् ॥ ७ ॥ वय इति पक्षिनाम । यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य प्रोत्सारणाय पाणिमुद्यच्छते स तत्कृत्वाऽप उपस्पृशेत् तेनैव पाणिना । 'रिक्तपाणि' रिति वचनात् काष्ठलोष्ठादिसहितस्य पाणेरुद्यमने न दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥ १. एतदनन्तर 'त्रिदिनं च चतुर्थेऽन्हि शुद्धास्स्युर्नाह्नवी यथा' इत्यर्धमधिक दृश्यते ग. पु. स्मृत्यन्तरं' इति च नास्ति २. न मवत्येव इति ख. ग. पु ३. तस्मात् प्रदरादुदकं नाचामेत्' इति तैत्तिरीयब्राह्मणम् । ४ प्रायशः इति. ख. पु. स्मृतिषु । इत्यन्तमेव च पुस्तके ।