आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 96, कुल 399 में से
संदर्भ में पढ़ेंआचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८५ शक्तिविषये न मुहूर्तप्यप्रयतः स्यात् ॥ ८ ॥ शक्तौ सत्यां मुहूर्त्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव मूत्र- पुरीषादिकं कुर्यात् यदि तावन्तं कालं(१) वेगं धारयितुं शक्नुयात् इति ॥ ८ ॥ नग्नो वा ॥ ९ ॥ न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । व्रणा- दिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९ ॥ नाप्सु सतः प्रयमणं विद्यते ॥ १० ॥ येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे ल्युट् । तदप्सु सतो वर्त- मानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १० ॥ उत्तीर्य त्वाचामेत् ॥ ११ ॥ तीर उत्तीर्याचामेत् न जल इति । अयमर्थो न विधेयः । पूर्वेण गतत्वात् । तस्मादयमर्थः-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामु- त्तीर्य तीरान्तरं गतः प्रयतोऽप्याचामेत् । नद्यादेरुत्तरणमाचमनस्य नि- मित्तमिति । (२)तुरप्यर्थः ॥ ११ ॥ नाऽप्रोक्षितमिन्धनमग्नावादध्यात् ॥ १२ ॥ श्रौते स्मार्ते लौकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽदध्यात् न प्रक्षिपेत् । केचिल्लौकिके नेच्छन्ति ॥ १ ॥ मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतानप्रयतो मन्येत।१३। (३)पतितचण्डालसूतिकादेकपाशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेल’ मिति गौतम । (४)तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा सुष्ठ्वास्तीर्णः पलालादिसङ्घातः स्वस्तर । पृषोदरादिषु दर्शनाद्रूपसि- द्धिः । यत्रातिश्लक्ष्णतया पलालादेर्मूलाग्रविभागो न ज्ञायते स मूढः । मूढश्चासौ स्वस्तरश्च मूढस्वस्तर तस्मिन् पतितादिष्वप्रयते- ष्वासीनेषु यः कश्चित्प्रयत उपविशेत् न च तान् संस्पृशेत् । तदा स १ तावन्तं कालं इति नास्ति क पु २ तुशब्दोऽप्यर्थे इति. क. पु ३ गौ ध. १४ ३०. उदक्या रजस्वला ४ तत्रेदमुच्यते इति ग. पु. पाठस्समीचीनः ।