आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 97, कुल 399 में से
संदर्भ में पढ़ें८६ आपस्तम्बधर्मसूत्र [(१.५.)क. १५. प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैव मन्येत । नैवंविधे विषये तत्स्पृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥ तथा तृणकाष्ठेषु निखातेषु ॥ १४ ॥ तृणकाष्ठेष्वपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥ प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥ शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि वाससः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥ शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥ शुना उपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्टं तथापि सचेलोऽवगाहेत भूमिगतास्वप्सु स्नायात् नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय- श्चित्तम् । तत्र वसिष्ठः(१) ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति॥' अङ्गिराः- (२)'ब्रह्मचारी शुना दष्टस्त्रिरात्रेणैव शुद्ध्यति । गृहस्थस्तु द्विरात्रेण ह्येकाहेनाऽग्निहोत्रवान् ॥ नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । तदेव त्रिगुणं वक्त्रे मूर्ध्नि चेत्स्याच्चतुर्गुणम् ॥ क्षत्रविट्शूद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् । द्विगुणं तु वनस्थस्य तथा प्रव्रजितस्य च ॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित्तं तदा कथम् । यां दिशं तु गतस्सोमस्तां दिशं त्ववलोकयेत् ॥ सोममार्गेण सा पूता पञ्चगव्येन शुद्ध्यति ॥' इति ॥ १६ ॥ प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ॥ १८ ॥ १. वचनमिदं न वसिष्ठस्मृतावुपलभ्यते । २. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अङ्गिरोवचनत्वेनैवोपन्य- स्तानि । परन्तु इदानीमुपलभ्यमानमुद्रिताङ्गिरःस्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन तु लिखितं ख. च. पुस्तकयोष्टिप्पण्याम् ।