आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 98, कुल 399 में से
संदर्भ में पढ़ेंआचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८७ शुना स्पृष्टं प्रदेशं प्रक्षाल्याग्निना च संस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा- ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥ (१)ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमभ्युपहन्यते । तत्र स्नानविधिः प्रोक्तो ह्यधः प्रक्षालनं स्मृतम् ॥' इति मानवे दर्शनात् ॥ १७ ॥ अग्निं नाप्रयत आसीदेत् ॥ १८ ॥ अप्रयतस्सन्नग्निं नासीदेत् अग्नेरासन्नो न भवेत्, यावति देशे ऊष्मोपलम्भः । तत्राप्यशक्तौ न दोषः ॥ १८ ॥ इषुमात्रादित्येके ॥ १९ ॥ इषुमात्रादर्वाङ्नासीदेत् । ऊष्मोपलम्भो भवतु वा मा भूदित्येके मन्यन्ते ॥ १९ ॥ न चैनमुपधमेत् ॥ २० ॥ अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोषः । 'मुखेनोपधमेदग्निं मुखाद्धयग्निरजायत ।' इति स्मृत्यन्तरे दर्शनात् । (२) नाग्निं मुखेनोपधमे' दिति मानवे दर्शनादुभयोर्विकल्पः । अपर आह—वाजसनेये श्रौतप्रकरणे 'मुखाद्धयग्निरजायत । तस्मान्मुखेनो- पसमिन्ध्या' दिति दर्शनात् श्रौतेषु मुखेनोपसमिन्धनम्, अन्यत्र स्मार्ते प्रतिषेध इति । अन्ये तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं हि मुखव्यापारस्यानपायाच्छ्रुतिरप्यनुगृहीता भवति, आस्यबिन्दूनां पत- नशङ्काभयात् प्रतिषेधस्मृतिरपीति ॥ २० ॥ खट्वायां च नोपदध्यात् ॥ २१ ॥ खट्वायां खट्वाया अधोऽग्निं नोपदध्यात् । अत्राप्यशक्तौ न दोषः ॥२१॥ प्रभूतैधोदके ग्रामे यत्राऽऽत्माधीनं प्रथमणं तत्र वासो धार्यो ब्राह्मणस्य ॥ २१ ॥ १ म. स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते । २. म. स्मृ ४ ५३.