भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 99, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 99

८८ आपस्तम्बधर्मसूत्रे [ (प.५) क. १५. प्रभूत एधः उदकं च यस्मिन् ग्रामे तत्र वासो धर्म्यं धर्म्म्यः । अत्रापि न सर्वत्र । किं तर्हि ? यत्रात्माधीन प्रथमण प्रायत्यं मूत्रपुरीषप्रक्षालना- दीनि यत्रात्माधीनानि तत्र । यत्र तु कूपेष्वेवोदकं तत्र बहुकूपेऽपि न वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । ग्रामग्रहणादेवंभूतेषु घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥ मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपान्· च्छिष्टलेपान् रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ॥ २३ ॥ मूत्रं पुरीषं वा कृत्वा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे स्थिताः प्रदेशान्तरे वा पतिताः तान् सर्वान् । (१)अन्नलेपांश्चानुच्छिष्टा नपि उच्छिष्टलेपांश्चानन्नलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ मैथुने वा तान् सर्वानद्भिर्मृदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य पश्चादाचम्य प्रयतो भवति । अत्र मृत्प्रमाणस्य सङ्ख्यायाश्चानुक्तत्वात् यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च याज्ञवल्क्यः— (२)गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।' इति । देवलस्तु व्यक्तमाह— (३)'यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ॥' इति । पैठीनसि — 'मूत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये । अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः ।' इति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥ १. अन्नले पानुच्छिष्टानप्युच्छिष्टलेपानन्नलेपानपि. इति ख. पुस्तकेऽपपाठः । २. या. स्मृ. १. १७. ३ मुद्रितदेवलस्मृताविदं वचन नोपलभ्यते ।