आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 100, कुल 399 में से
संदर्भ में पढ़ेंआचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८९ तिष्ठन्नाऽऽचामेत् प्रह्वो वा ॥ १ ॥ तिष्ठन् प्रह्वो वा नाचामेत् । नायं प्रतिषेधः शक्यो वक्तुम् । कथम् ? 'आसीनस्त्रिराचामे' (१६ २.) दिति वक्ष्यति । ततश्च यथा शयानस्याच- मनं न भवति तथा तिष्ठतः प्रह्वस्य च न भवति । एवं तर्हि शौचार्थस्या- चमनस्य नायं प्रतिषेधः । किं तर्हि ? पानीयपानस्य प्रतिषेधः । तथा गौतमः-(१)'नाञ्जलिना जलं पिबेत् । न तिष्ठ' न्निति । अपर आह-अस्मा देव प्रतिषेधात्क्वचित्तिष्ठतः प्रह्वस्य चाऽऽचमनमभ्यनुज्ञातं भवति । तेन 'भूमिगतास्वाप्सुव' त्यत्र तीरस्याऽयोग्यत्वे ऊरुदघ्ने (२)जानुदघ्ने वा जले स्थितस्याऽऽचमनं भवति । गौतमीयेऽपि(३) न तिष्ठन्नुद्घृतोदकेनाचा मे' दिति सूत्रच्छेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेध इति ॥ १ ॥ अथाऽऽचमनविधिः- आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः ॥ २ ॥ अद्भिः तृतीया द्वितीयार्थे । अत्राऽनुक्ते स्मृत्यन्तरवशा(४)दुपस्क्रियते । आसीनः शुचौ देशे, नासने, भोजनान्ते त्वासने । दक्षिणं बाहु(५) जान्व न्तरे कृत्वा प्राङ्मुख उपविष्टः उदङ्मुखो वा हृदयङ्गमा(६) अपः करत- लस्थासु यावतीषु माषो निमज्जति तावती फेनबुद्बुदरहिताः वीक्षिता- स्त्रिराचामेत् पिबेत्, ब्राह्मणः हृदयङ्गमाः, क्षत्रियः कण्ठगताः, वैश्यस्ता- लुगताः, शूद्रो जिह्वास्पृष्टास्सकृत् ॥ २ ॥ (७)त्रिरोष्ठौ परिमृजेत् ॥ ३ ॥ परिमृज्यात् ॥ ३ ॥ द्विरित्येके ॥ ४ ॥ तुल्यविकल्पः ॥ ४ ॥ सकृदुपस्पृशेत् ॥ ५ ॥ मध्यमाभिस्तिसृभिरङ्गुलीभिरोष्ठौ ॥ ५ ॥ १. गौ ध. ९ ९, १०. २. नाभिदघ्ने, इति च. पु ३ गौ. ९. १० गौतमोऽपि न तिष्ठन्नुद्धृतोदकेनाचा मेत् इति सूत्रभेदादुद्धृतो दकेनैव तिष्ठतः प्रतिषेधमाह" इति क. पु. ४. 'उपस्तूयते' इति ग. पु. ५. ऊर्वन्तरे इति. ख ग. पु. ६. आपः इति. ख. ग. पु. ७. इदमग्रिमं च सूत्रमेकीकृतं. ग. पुस्तके. आप० ध० १२