भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 101, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 101

९० आपस्तम्बधर्मसूत्रे [ (प्र. १.) क. १६. द्विरित्येके ॥ ६ ॥ तुल्यविकल्पः ॥ ६ ॥ दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि- याण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे च ॥७॥ दक्षिणेन पाणिना सव्यं पाणिं प्रोक्ष्य तथा पादौ शिरश्च, इन्द्रियाण्युपस्पृशेत् अ- ङ्गुलीभिः । सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे—चक्षुषी नासिके श्रोत्रे चे- ति । इन्द्रियाणीति वचनं स्वरूपकथनमात्रम् । तत्राऽङ्गुष्ठानामिकाभ्यां चक्षुषी । केचित्युगपत्, केचित्पृथक् । अङ्गुष्ठप्रदेशिनीभ्यां नासिके । अ- ङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे । (१)अत्र सहभावस्याऽशक्यत्वात् पृथग्भा वस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् ॥ ७ ॥ अथाऽप उपस्पृशेत् ॥ ८ ॥ इन्द्रियस्पर्शनानन्तरं हस्तौ प्रक्षालयेत् ॥ ८ ॥ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृ- जेत्सकृदुपस्पृशेत् ॥ ९ ॥ भोजनं करिष्यन् प्रयतोऽपि द्विराचमनं कुर्यात् । अत्र विशेषः-द्विः परिमृजेत् , न विकल्पेन त्रिः । सकृदुपस्पृशेत् , न विकल्पेन द्विः । ‘प्रयतोऽपी’ति वचनादप्रायत्ये सर्वत्र द्विराचमनमाचार्यस्याऽभिप्रेतम् । तत्र स्मृत्यन्तरम्— ‘भुक्त्वा क्षुत्वा च सुप्त्वा च ष्ठीवित्वोक्त्वाऽनृतं वचः । आचान्तः पुनराचामेद्वासो विपरिधाय च’ ॥ ९ ॥ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् ॥ १० ॥ दन्तमूलात्प्रभृत्योष्ठौ । तत्राऽलोमकः प्रदेशः श्यावः । तस्यान्तः सलोमकः। तत्पर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् । ओष्ठयोरलोमकप्रदेशमङ्गुल्या(२) काष्ठादिना वोपस्पृश्याऽऽचामेदिति ॥ १० ॥ १. अत्र सहभावस्याशक्यत्वात् पृथगपिक्रियते । अत्र पृथग्भावस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् इति ख. घ. पु. । युक्तमित्यन्ये' इति. क पु. २. अङ्गुल्याऽऽत्मकनिष्ठादिना वेति क. पुस्तकेऽपपाठः ।

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 101, कुल 399 में से · BharatKosha