आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 102, कुल 399 में से
संदर्भ में पढ़ेंआचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९१ न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भि- र्यावन्न हस्तेनोपस्पृशति ॥ ११ ॥ श्मश्रूणि यदा आस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्भिरुच्छिष्टो न भवति यावन्न हस्तेनोपस्पृशति । (१)उपस्पर्शने तूच्छिष्टो भवति । ततश्चाऽऽचामेदिति । अस्मादेव प्रतिषेधात् ज्ञायते—यत्किञ्चिदपि द्रव्य- मन्तरास्ये (२)सदुच्छिष्टताया निमित्तमिति ॥ ११ ॥ य आस्याद्विन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् ॥ १२ ॥ भाषमाणस्याऽऽस्यात् पतन्तो ये लालाबिन्दव उपलभ्यन्ते चक्षुषा स्प- र्शनाद्वा उपलब्धुं योग्यास्तेष्वाचमनं विहितम् । वेदोच्चारणे तु गौतमः— (३)'मन्त्रब्राह्मणमुच्चारयतो ये बिन्दवः शरीरे उपलभ्यन्ते न तेष्वा- चमन'मिति ॥ १२ ॥ ये भूमौ न तेष्वाचामेदित्येके ॥ १३ ॥ ये बिन्दवो भूमौ पतन्ति, न शरीरे, तेषु नाचामेदित्येके मन्यन्ते । स्वमतं तु तेष्वप्याचामेदिति ॥ १३ ॥ स्वप्ने क्षवथौ (४)शिङ्घाणिकाऽश्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापन्थं च गत्वाऽमेध्यं चोपस्पृश्याऽप्रयतं च मनुष्यं नीवीं च परि- धायाऽप उपस्पृशेत् ॥ १४ ॥ स्वप्नः (५)स्वापः । क्षवथुः क्षुतम्, तयोः कृतयोः। शिङ्घाणिका नासिकाम- लम् । अश्रु नेत्रजलम्, तयोरालम्भे स्पर्शे । लोहितस्य रुधिरस्य । केशानां शि- रोगतानां भूमिगतानां च । अग्न्यादीनां चतुर्णामालम्भे । महापन्थं च गत्वा । अमेध्यं च गोव्यतिरिक्तानां मूत्रपुरीषादि । ताम्बूलनिषेकादि चोपस्पृश्य । अप्रयतं च मनुष्यमुपस्पृश्य । नीवी प्रसिद्धा तयोगादधोवासो लक्ष्यते । तच्च परिधायाप उपस्पृशेत् । केषुचित् स्नानं केषुचिदाचमनं केषुचित् स्पर्शनमात्र यावता प्रयतो मन्यते ॥ १४ ॥ १. स्पर्शने इति क. पु. २. सत् तदुच्छिष्टताया निमित्तमिति क. पु. ३. नास्ति वचनमिदं मुद्रितगौतमधर्मकोशेषु मदीये लिखितपुस्तके च । ४. शृङ्घाणिका शृङ्खणिका शृङ्गाणिका इत्यपि पाठाः । ५. स्वापन इति ख. पु.