आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 103, कुल 399 में से
संदर्भ में पढ़ें९२ आपस्तम्बधर्मसूत्रे [(प.५.)क. १६ आर्द्रं वा शकृदोषधीर्भूमिं वा ॥ १५ ॥ (१)उपस्पृशेदित्येव । त्रिष्वाद्वैशब्दस्सम्बध्यते लिङ्गवचनादिविपरि- णामेन । आर्द्रं वा शकृदुपस्पृशेत् ओषधीर्वा आर्द्रा, भूमिं वा आर्द्रां । पूर्वोक्ते- ष््वेव (२)कल्पेषु वैकल्पिकमिदम् ॥ १५ ॥ एवमाचमनं (३)सह निमित्तैरुक्तम् । अथाऽभक्ष्याधिकारः— हिंसार्थेनाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥ असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिंसार्थेनाऽसिना छिन्न तदभोज्यम् ॥ १६ ॥ दद्भिरपूपस्य नाऽपच्छिन्द्यात् ॥ १७ ॥ अपूपग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीयार्थे षष्ठी । दन्तैरपूप नापच्छिन्द्यात् । किं तु हस्तादिभिरपच्छिद्य भक्षयेत् ॥ १७ ॥ यस्य कुले म्रियेत न तत्राऽनिर्देशे भोक्तव्यम् ॥ १८ ॥ यस्य कुले कश्चिन्म्रियते असपिण्डतायां सत्यां (४)तत्राऽनिर्गते दशाहे न भोक्तव्यम् । ‘अनिर्दशे’ इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि- ष्वधिकं पक्षिण्यादिषु न्यूनम् ॥ १८ ॥ तथाऽनुत्थितायां सूतकायाम् ॥ १९ ॥ सूतका सूतिका । तस्यामनुत्थितायाम् । उत्थानं नाम सूतिकागारे नि- वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति । (५)‘दशम्यामूत्थिताया’मिति गृहे उक्तत्वात् । अत्राप्याशौचकालोप- लक्षणत्वाद्यावदाशौचमभोजनम् । अत्राऽङ्गिराः— ‘ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् । सूतके शाव आशौचे त्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥ अन्तःशवे च ॥ २० ॥ १. उपस्पृशेदिति विपरिणामेनेत्यन्तो भाग क. पुस्तके नास्ति । २. ‘सर्वेषु’ इति ख च. पु । स्वल्पेषु इति ग. पु. । ३. ‘सनिमित्त’मिति ख. पु. ४. ‘तत्रातीते दशाहे भोक्तव्यम्’ इति ग पु. ५. आप. गृ. १५ ८