आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
९२ आपस्तम्बधर्मसूत्रे [(प.५.)क. १६ आर्द्रं वा शकृदोषधीर्भूमिं वा ॥ १५ ॥ (१)उपस्पृशेदित्येव । त्रिष्वाद्वैशब्दस्सम्बध्यते लिङ्गवचनादिविपरि- णामेन । आर्द्रं वा शकृदुपस्पृशेत् ओषधीर्वा आर्द्रा, भूमिं वा आर्द्रां । पूर्वोक्ते- ष््वेव (२)कल्पेषु वैकल्पिकमिदम् ॥ १५ ॥ एवमाचमनं (३)सह निमित्तैरुक्तम् । अथाऽभक्ष्याधिकारः— हिंसार्थेनाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥ असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिंसार्थेनाऽसिना छिन्न तदभोज्यम् ॥ १६ ॥ दद्भिरपूपस्य नाऽपच्छिन्द्यात् ॥ १७ ॥ अपूपग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीयार्थे षष्ठी । दन्तैरपूप नापच्छिन्द्यात् । किं तु हस्तादिभिरपच्छिद्य भक्षयेत् ॥ १७ ॥ यस्य कुले म्रियेत न तत्राऽनिर्देशे भोक्तव्यम् ॥ १८ ॥ यस्य कुले कश्चिन्म्रियते असपिण्डतायां सत्यां (४)तत्राऽनिर्गते दशाहे न भोक्तव्यम् । ‘अनिर्दशे’ इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि- ष्वधिकं पक्षिण्यादिषु न्यूनम् ॥ १८ ॥ तथाऽनुत्थितायां सूतकायाम् ॥ १९ ॥ सूतका सूतिका । तस्यामनुत्थितायाम् । उत्थानं नाम सूतिकागारे नि- वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति । (५)‘दशम्यामूत्थिताया’मिति गृहे उक्तत्वात् । अत्राप्याशौचकालोप- लक्षणत्वाद्यावदाशौचमभोजनम् । अत्राऽङ्गिराः— ‘ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् । सूतके शाव आशौचे त्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥ अन्तःशवे च ॥ २० ॥ १. उपस्पृशेदिति विपरिणामेनेत्यन्तो भाग क. पुस्तके नास्ति । २. ‘सर्वेषु’ इति ख च. पु । स्वल्पेषु इति ग. पु. । ३. ‘सनिमित्त’मिति ख. पु. ४. ‘तत्रातीते दशाहे भोक्तव्यम्’ इति ग पु. ५. आप. गृ. १५ ८
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९३ याव(१)द्ग्रामात्र निर्ह्रीयेते शवः तावत्तत्र न भोक्तव्यम् । आचारस्तु धनुश्शतादार्वाक् । तत्रापि प्रदीपमारोप्य उदकुम्भं चोपनिधाय भुञ्जते यदि (२)समानवंशं गृहं न भवति ॥ २० ॥ अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ २१ ॥ अप्रयतेनाऽशुचिना उपहतं स्पृष्टमप्रयतं भवति । किंतु अशुद्धमप्यभोज्यं न भवति । कः पुनरप्रयतस्याऽभोज्यस्य च विशेषः ? उच्यते—अप्रयत- मन्नमग्नावधिश्रितमद्भिः प्रोक्षितं भस्मना मृदा वा संस्पृष्टं वाचा च प्रशस्तं प्रयतं भवति भोज्यं च । अभोज्यं तु लशुनादि न कथञ्चि- दपीति ॥ २१ ॥ अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ २२ ॥ अप्रयतेन तु शूद्रेणोपहृतमानीयमानं न भोज्यम् , स्पृष्टमस्पृष्टं च । स्पृष्टमे- वेत्यन्ये ॥ २२ ॥ यस्मिंश्चाऽऽन्ने केशास्स्यात् ॥ २३ ॥ तदप्यभोज्यम् । एतच्च पाकद्दशायामेव पतितेन केशेन सह यत्प- कमन्नं तद्विषयम् । (३)पश्चात् केशसंसर्गे तु घृतप्रक्षेपादिना संस्कृतस्य भोज्यत्वं स्मृत्यन्तरोक्तम् ॥ २३ ॥ अन्यद्वाऽमेध्यम् ॥ २४ ॥ अन्यद्वाऽमेध्यं नखादि यस्मिन्नन्ने स्यात् तदप्यभोज्यम् । इदमपि पूर्ववत् । अत्र बौधायनः— (४)'केशकीटनखरोमाखुपुरीषाणि दृष्ट्वा तावन्मात्रमन्नमुद्धृत्य शेषे भोज्य'मिति । वसिष्ठस्तु (५)'कामं तु केश कीटानुत्सृज्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य वाचा प्रशस्तमुपयुञ्जीते'ति ॥ २४ ॥ अमेध्यैरवमृष्टम् ॥ २५ ॥ १ ग्रामान्तं न इति क. पु. २. समानवंशत्वं गृहाणा इति ख. पु. । समानं वंशगृहं न भवति इति क. पुस्तकेऽपपाठः । ३. भोजनकाले तु केशपाते घृतप्रक्षेपादिना तु संस्कृतं भोज्यम् । इति. घ. पु. ४ बौ. ध. २. १२. ६ ५ वा. ध १४ २३ उत्सृजीत इति ग. पु.
९४ आपस्तम्बधर्मसूत्रे [ (प्र.५.) क. १६. अमेध्यैः कलञ्जपलण्ड्वादिभिरवमृष्ट स्पृष्टमभोज्यम् ॥ २५ ॥ कीटो वाऽमेध्यसेवी ॥ २६ ॥ 'यस्मिंश्चान्ने केशः स्या'दिति व्यवहितमपि सम्बध्यते । अमेध्यसेवी कीटः पूत्यण्डाख्यः ॥ २६ ॥ मूषिकलाङ्गं वा ॥ २७ ॥ पूर्ववत्सम्बन्धः । मूषिकला मूषिकपुरीषम् । अङ्गं वा । समस्तमपि मूषिकग्रहणं सम्बध्यते । यस्मिन्नन्ने मूषिकस्याङ्गं पुच्छपादादि भवति तदप्यभोज्यम् ॥ २७ ॥ पदा वोपहतम् ॥ २८ ॥ प्रयतेनाऽपि पदा यत्स्पृष्टं तदप्यभोज्यम् ॥ २८ ॥ सिचा वा ॥ २९ ॥ सिक् वस्त्रदशा । परिहितस्य वाससः सिचा यत् स्पृष्टं तदप्य- भोज्यम् ॥ २९ ॥ शुना वाऽपपात्रेण वा दृष्टम् ॥ ३० ॥ दृष्टमिति प्रत्येकमभिसम्बध्यते । शुना वा दृष्टमपपात्रेण वा दृष्टं यत्तद- प्यभोज्यम् । पतितसूतिकाचण्डालोदक्यादयोऽपपात्राः, अपगताः पा- त्रेभ्यः । न हि ते पात्रे भोक्तुं लभन्ते ॥ ३० ॥ सिचा वोपहृतम् ॥ ३१ ॥ अपरिहितस्य शुद्धस्यापि वाससस्सिचा यदुपहृतमानीतं तदप्य- भोज्यम् ॥ ३१ ॥ दास्या वा नक्तमाहृतम् ॥ ३२ ॥ दास्या रात्रावाहृतमभोज्यम् । स्त्रीलिङ्गनिर्देशात् दासेनाऽऽहृते न दोषः । अन्ये लिङ्गमविवक्षितं मन्यन्ते । 'नक्त'मिति वचनाद्दिवा न दोषः ॥ ३२ ॥ भुञ्जानं वा ॥ ३३ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ षोडशी कण्डिका ॥
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९५ यत्र शूद्र उपस्पृशेत् ॥ १ ॥ भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जान- ग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु—सदा भव- त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥ अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥ सर्वत्र वाशब्दः समुच्चये । अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥ २ ॥ भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥ ३ ॥ समानपङ्क्ताविति वर्तते । समानपङ्क्तौ बहुषु भुञ्जानेषु यद्येको ऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥ कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥४॥ मूर्ख, वैश्ववेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्य भोज्यम् ॥ ४ ॥ मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥ मनुष्यैरन्यैर्वा मार्जारादिभिरमेध्यैरवघ्रातमन्नमभोज्यम् । (२)अवेत्युपसर्ग- योगात् दूरस्थैर्गन्धाघ्राणे न दोषः ॥ ५ ॥ न नावि भुञ्जीत ॥ ६ ॥ नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥ ६ ॥ तथा प्रासादे ॥ ७ ॥ प्रासादो दारुमयो मञ्चः । तत्रापि न भुञ्जीत ॥ ७ ॥ कृतभूमौ तु भुञ्जीत ॥ ८ ॥ भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर आह—प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८ ॥ १. कोऽपि. इति. ग. पु. २ अवोपसर्गयोगात् इति क. पु. ३. इदं व्याख्यान्तरं नास्ति. ग. पुस्तके ।
९६ आपस्तम्बधर्मसूत्रे [ (प.५) क. १७. अनाप्रीते मृण्मये भोक्तव्यम् ॥ ९ ॥ यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका- दावुपयुक्तम् ॥ ९ । आप्रीतं चेदभिदग्धे ॥ १० ॥ आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥ परिमृष्टं लौहं प्रयतम् ॥ ११ ॥ लौहं लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं सत् प्रयतं भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥ निर्लिखितं दारुमयं ॥ १२ ॥ दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥ यथागमं यज्ञे ॥ १३ ॥ यज्ञपात्रं तु यथागमं शोधितं प्रयतं भवति । तद्यथा अग्निहोत्र- हवणी दर्भैरद्भिः प्रक्षालिता, सोमपात्राणि (१) मार्जालीये प्रक्षालितानि, आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥ नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥ आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तदापणीयम् । तच्च कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥ तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥ रसाः रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात् । (२) आममांसादि वर्जयित्वा ॥ १५ ॥ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥ तैलसर्पिषी त्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिच्य पाकेन तैल- सर्पिषी(३)शांधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं- सृज्येत्यन्ये(४) ॥ १६ ॥ १. मार्जालीयः सोमयागे सदोनामकमण्डपस्याग्नेयकोणे स्थितः स्थानविशेषः । २. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु. ४ व्याचक्षते इत्यधिकं ख. ग. पु
अभोज्यान्नानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९७ कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ १७ ॥ कृतान्नं पक्वान्नं तत्पर्युषितं पूर्वेद्युः पक्वं सत् अखाद्यम् । अपेयमनाद्यं च यथायोगं खरविशदं द्रवं मृदुविशदं सिद्धं च ॥ १७ ॥ शुक्तं च ॥ १८ ॥ शुक्तं यत्कालपाकानोऽम्लीभूतं तदपर्युषितमपि अखाद्यापेया- नाद्यम् ॥ १८ ॥ फाणितपृथुकतण्डुलकरम्भ(१) भ्रूजसक्तुशाकमांसपि- ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥ अनन्तरोक्तं विधिद्वयं फाणितादीन् वर्जयित्वा द्रष्टव्यम् । फाणितं पा- नविशेषः । इक्षुरस इति केचित् । (२) भ्रष्टानां व्रीहीणां तण्डुलाः पृथूकृताः पृथुकाः । करम्बो दधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे- देऽप्युभयं भवति(३) 'यत्करम्बेर्जुहोति' । (४) "धानाः करम्भः परि- वापः" इति । भ्रूजाः भ्रष्टा यवाः । क्षीरविकारो दध्यादि । प्रसिद्धमन्यत् ॥ अथ 'शुक्तं चे'त्यस्य विधेः शेषः— शुक्तं चाऽपरयोगम् ॥ २० ॥ परेण द्रव्यान्तरेण योगो यस्य तत् परयोगं, ततोऽन्यदपरयोगम् । तदेव शुक्तं वर्ज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तद्भोज्यमेव । एवं च पूर्वत्रैवाऽपरयोगमिति विशेषणं वक्तव्यम् । इदमेव वा सूत्रमस्तु । सूत्रद्वयकरणं त्वाचार्यप्रवृत्तिकृतम् । यथा 'सलाद्वृक्येकसृकोलूकशब्दा' (पृ. ५८) इति पूर्वं सामान्येनाभिधाय 'सलाद्वृक्यामेकसृक इति स्वप्न- पर्यान्त' (पृ. ६५) मिति पश्चाद्विशेष उक्तः ॥ २० ॥ सर्वं मद्यमपेयम् ॥ २१ ॥ मद्यं मदकरं तत्सर्वमपेयम् । अत्र स्मृत्यन्तरवशाद्व्यवस्था । तत्र मनुः— (५) 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका न पातव्या (६) तथा सर्वा द्विजोत्तमैः ॥' इति । सुराव्यतिरिक्तं तु मद्यं ब्राह्मणस्य नित्यमपेयम् । १. 'भ्रष्टे'ति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु ३. तै. ब्रा ३ ८ १४. ४ तै. स. ६ ५ ११. ५. म. स्मृ. ११ ९४ ६ 'तथैवान्या' इति ग पु. आप० ध० १३
तथा च गौतमः- (१)'मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो'रिति ॥२१॥ तथैलकं पयः ॥ २२ ॥ अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥ उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥ उष्ट्रीमृग्यौ प्रसिद्धे । या गर्भिणी दुग्धे सा सन्धिनीति शाखान्तरे प्रसि- द्धा । एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा यमसूः । उष्ट्रादीनां क्षीराण्येपेयानि । इतिकरणमेवं प्रकाराणामन्येषामे- कशफादीनां क्षीरमपेयमिति । तथा च मनुः- (२)'आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥ धेनोश्चानिर्दशायाः ॥ २४ ॥ धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । (३)'अजा गावो महि- ष्यश्चे'ति मानवे दर्शनात् ॥ २४ ॥ तथा कीलालोषधीनां च ॥ २५ ॥ कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमन्नाद्यम्॥२५॥ (४)करञ्जपलण्डुपरारीकाः ॥ २६ ॥ (५)करञ्जं रक्तलशुनम् । पलण्डु श्वेतम् । परारीका कृष्णम् । (६) मण्डु- १ गौ. ध. २. २० मद्य नित्य ब्राह्मण', इत्येव सूत्रम् ॥ २ म. स्मृ. ५. ९, ८. ३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षीरं (५. ८) इति श्लोकव्याख्यानावसरे कुल्लूकभट्टेन "गोरिति पेयक्षीरोपलक्षणार्थम् । तेनाजामहिष्यो- रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यश्चे'त्यस्याऽमानवत्वमेवाऽनु- मीयते । वस्तुतस्तु पाराशरीयं वचनामिदम् । ( परा. स्मृ. ३. ७.) तत्रैव दर्शनात् ॥ ४. कलञ्जपलाण्डुपरारीकाः इति क पु. परारिका इति. घ पु. ५. अनेनैव प्रमाणेन 'न कलञ्ज भक्षयेत' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य- स्माभिर्व्याख्यातं नञर्थनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारविवेचिन्याम् । तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव द्रष्टव्यम् ॥ ६. डुण्डुभाष्यया इति ख. पु. सुहण्डुभाष्यया इति. क. पु.
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९९ भाख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽभक्ष्याः ॥ २६ ॥ अभक्ष्याणां प्रतिपदपाठो न शक्यते इति समासेनाह— यच्चाऽन्यत् परिचक्षते ॥ २७ ॥ यच्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यभक्ष्यम् । तत्राह मनुः— (१)लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ॥ अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥' इति ॥ २७ ॥ क्याक्वभोज्यमिति हि ब्राह्मणम् ॥२८॥ क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥ एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ॥ २९ ॥ एकखुरा अश्वादयः । गवयो गोसदृशः पशुः । शरभोऽष्टपाद आरण्यो - मृगः । अन्ये प्रसिद्धाः । एतेषां मांसमभक्ष्यम् ॥ २९ ॥ धेन्वनडुहोर्भक्ष्यम् ॥ ३० ॥ धेन्वनडुहोर्मांसं भक्ष्यम् । गोप्रतिषेधस्य प्रतिप्रसवः ॥ ३० ॥ मेध्यमानडुहमिति वाजसनेयकम् ॥ ३१ ॥ (२)अनडुहो मांसं न केवल भक्ष्यम्, किं तर्हि ? मेध्यमपीति वाजस- नेयिनः समामनन्ति ॥ ३१ ॥ कुक्कुटो विकिराणाम् ॥ ३२ ॥ व्यवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा- न्यादि ये भक्षयन्ति ते मयूरादयो विकिरास्तेषां मध्ये कुक्कुटो न भक्ष्यः । स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥ प्लवः प्रतुदाम् ॥ ३३ ॥ तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्व्वाघाटादयः प्रतुदाः । तेषां मध्ये प्लव एवाऽभक्ष्यः । प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥ (४)क्रव्यादः ॥ ३४ ॥ १. म. स्मृ. ५ ५. २. आनडुहं मास० इति ख. ग. पु. ३ शकटविलाह्य इति ख पु. शकावलाख्यः इति. ग, पु शकबलाह्य इति. घ, ङ. पुस्तकयो. । ४ एतदादि सूत्रत्रयमेकीकृतं क पु.
२. प्रथम प्रश्न (पटल ६-११): शुद्धि-अशुद्धि व प्रायश्चित्त
१०० आपस्तम्बधर्मसूत्रे [(प्र.५.)क.१७ क्रव्यं मांसं तदेव केवलं येऽदन्ति ते क्रव्यादः गृध्रादयः। ते ऽप्यभक्ष्याः हंसभासचक्रवाकसुपर्णाश्च ॥ ३५ ॥ हंसः प्रसिद्धः । भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः । सुपर्णः श्येनः । एते चाऽभक्ष्याः ॥ ३५ ॥ क्रुञ्चक्रौञ्च वार्ध्रीणसलक्ष्मणवर्जम् ॥ ३६ ॥ क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौ- ञ्चेति विभक्तिलोपश्चान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः । ने- त्याह—वार्ध्रीणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एव विशेष्यन्ते—वार्ध्रीणसा इति । वार्ध्री चर्म तदाकारा नासिका येषां ते वार्ध्रीणसाः । एवंभूतान् लक्ष्मणाम् वर्जयित्वा क्रुञ्चक्रौञ्चा न भक्ष्या इति । अन्ये त्वाहुः—'क्रव्याद्' इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्व- प्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति(१) 'ङ्यापोस्सं- ज्ञाच्छन्दसो'रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादित्वात्तन्तस्य ॥३६॥ पञ्चनखानां(२) गोधाकच्छपश्वाविच्छर्यकखङ्ग- शशपूतिखषवर्जम् ॥ ३७ ॥ पञ्चनखानरवानरमार्जारादयः । तेषां मध्ये गोधादीन् सप्त वर्जयित्वा अ- न्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाविद् व राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यकः शल्यकः, यस्य च- र्मणा तनुत्राणं क्रियते । श्वाविच्छर्यक इति युक्तः पाठः । एके तु छकारं पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभा- जनम् । शशः प्रसिद्धः । पूतिखष । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥ अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥ मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥ सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः ॥३९॥ सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये च क्रव्यमेवाऽदन्ति शिशुमारादयः तेऽप्यभक्ष्याः । ये च उक्तेभ्योऽन्ये १. पा. सू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ।
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१ मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः- (१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ (२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति । (३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति ग पु. ।
अथ षष्ठः पटलः ॥ एवं तावन्निमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि- मित्तदुष्टं 'यस्य कुले म्रियेते(पृ. ९२.)'त्यादि । जातिदुष्टं कलञ्जादि । कालदुष्टं पर्युषितादि । इदानीं प्रतिग्रहाशुचीनि कानिचिदनुज्ञाय कानिचित् प्रतिषेधति— मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यू- तिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ॥ १ ॥ मधु पक्कमपक्वं वा । आम तण्डुलादि । मृगस्य विकारो मार्गं मांसम् । भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमित्यन्ये । मूलफलानि(१) मूलकाम्रा- दीनि । रक्षा अभयदानम् । गव्यूतिर्गोमार्गः । निवेशनं गृहम् । युगं वहती- ति युग्यो बलीवर्दः । तस्य घासो भक्ष्यं पलालादि । एतान्युग्रतोऽपि प्रति- गृह्याणि प्रतिग्राह्याणि अदुर्भीक्षेऽपि । उग्रः पापकर्मा द्विजातिः, वैश्याद्वा शूद्रायां जातः । उग्रग्रहणं तादृशानामुपलक्षणम् ॥ १ ॥ एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥ एतानि मध्वादीन्यपि अन्तेवास्याहतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत इति हारीत आचार्यो मन्यते ॥ २ ॥ आमं वा गृह्णीरन् ॥ ३ ॥ पूर्वोक्तेष्वामं स्वयमेव वा गृह्णीरन् द्विजा इति(२) हारीतस्यैव पक्षः ॥ ३ । कृतान्नस्य वा विरसस्य ॥ ४ ॥ आमस्याऽलाभे कृतान्नस्याऽपि विरसस्य लवणादिरसासंयुक्तस्य । षष्ठी निर्देशात् स्तोकम् । स्वयमन्तेवास्याहृतं वा गृह्णीरन् ॥ ४ ॥ न सुभिक्षाः स्युः ॥ ५ ॥ अनन्तरोक्तविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयु- रेव । यावता प्राणयात्रा भवति तावदेव गृह्णीरन् , न यावता सौहित्यं तावदिति ॥ ५ ॥ स्वयमप्यवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत ॥ ६ ॥ यदि तु दुर्भिक्षतया आत्मनोऽपि वृत्तिर्न लभ्यते प्रागेव पोष्यवर्गस्य, १. मूलकन्दादीनि इति क. पु. २ हारीताचार्यस्य, इति छ. पु.
अनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३ तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण- विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥ न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्तिं प्राप्य विरमेत् ॥ ८ ॥ यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स- कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा- यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे' इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति । अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ- त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण- मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं प्राप्य विरमेदिति ॥ ८ ॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह— त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ॥ ९ ॥ समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥ प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥ १ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो- ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे” इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.
१०४ आपस्तम्बधर्मसूत्रे [ (प.६)क. १८. ब्राह्मणस्यान्न प्रकृत्या स्वभावैनैव भोक्तव्यम्। कारणादेव स्वभोज्यम्॥१०॥ कारणमाह- यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥ (१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽप्राय- श्चित्तं कर्माऽऽसेवते तात्पर्येण करोति प्रायश्चित्तवत्यात्मनि चोदितं प्रा- यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा पत- स्मात् कारणात् ब्राह्मणस्याऽन्नमभोज्यमिति ॥ ११ ॥ चरितनिर्वेशस्य भोक्तव्यम् ॥ १२ ॥ चरितो निर्वेशः प्रायश्चित्तं येन तस्याऽन्नं भोक्तव्यम्। तद्भोजने न दोषः। निष्ठया भूतकालस्याऽभिधानाच्चर्यमाणेऽपि निर्वेशे न भोक्तव्यम्। किं तर्हि ? चरिते ॥ १२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्रवर्जमित्येके ॥ १३ ॥ शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम्। न ब्राह्मणस्यैवेत्येके मन्यन्ते ॥ १३ ॥ तस्याऽपि धर्मोपनतस्य ॥ १४ ॥ तस्याऽपि शूद्रस्याऽन्नं भोज्यम् , यद्यसौ धर्मार्थमुपनतः आश्रितो भ- वति । धर्मग्रहणदर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥ सुवर्णं दत्वा पशुं वा भुञ्जीत नाऽत्यन्तमन्वव- स्येद्द्वृत्तिं प्राप्य विरमेत् ॥ १५ ॥ गतम् ॥ १५ ॥ सङ्घान्न मभोज्यम् ॥ १६ ॥ सङ्घो गणः तस्य यत् स्वमन्न न त्वेकस्य । तदभोज्यं यद्यपि ते सर्वे दद्युः ॥ १६ ॥ १. यत्र यदा अग्निहोत्रवैश्वदेवाकरणे प्रायश्चित्तं मुक्त्वा तदनुरूप, नित्यमाभ्यु- दयिक वा कर्मासेवते तात्पर्येण करोति न प्रायश्चित्तवत्यात्मनि चोदिते प्रायश्चित्तं, तदैत- स्मात्कारणादभोज्यमिति इति - क पु. । २ प्राणायामपथिकृदादि इति. ख. पु
अभोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०५ परिकुष्टं च ॥ १७ ॥ 'भोक्तुकामा आगच्छत' इत्येवं परिकुश्य सर्वत आहूय यद्दीयते तत्परिकुष्टं तदभोज्यम् ॥ १७ ॥ सर्वेषां च शिल्पाजीवानाम् ॥ १८ ॥ चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म- णादीनामन्नमभोज्यम् ॥ १८ ॥ ये च शस्त्रमाजीवन्ति ॥ १९ ॥ ये च शस्त्रेण जीवन्ति तेषामप्यन्नमभोज्यम् । क्षत्रियवर्जम्,(२)त- स्य विहितत्वात् ॥ १९ ॥ ये चाऽऽधिम् ॥ २० ॥ आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृतिग्रहणमा- धि, यः स्तोम इति प्रसिद्धः । परभूमौ कुटि कृत्वा स्तोमं दत्त्वा वसेन्नु यः '। इति । तं चाऽऽधिं ये आजीवन्ति तेषामप्यन्नमभोज्यम् । ये तु प्रसिद्धमा- धिमाजीवन्ति तेषां वार्धुषिकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥ भिषक् ॥ २१ ॥ अभोज्यान्न इति प्रकरणाल्लभ्यते । भिषक् भैषज्यवृत्तिः । धर्मार्थं तु ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ॥ २१ ॥ वार्धुषिकः ॥ २२ ॥ वृद्ध्याजीवी । सोऽप्यभोज्यान्नः ॥ २२ ॥ दीक्षितोऽक्रीतराजकः ॥ २३ ॥ दीक्षितो(४) दीक्षणीयेष्ट्या संस्कृतः सोऽपि यावत् क्रीतराजको न १ आजीवन्ति इत्यनन्तरं 'आजीवन्ति तेन ये जीवन्ति' इत्यधिकं क. पु. २. तस्य विहितत्वात्, इति नास्ति क. पु. ३. अभोज्यान्नत्वं सिद्धम्, इति ख ग. पु. ४. ज्योतिष्टोमे- 'आग्नावैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाण', इत्यनेन दक्षिणीयेष्टिनम काचिदिष्टिर्विहिता । सा च यजमानसंस्कारार्था, इति निर्णीत पूर्वमीमा- सायां पञ्चमाध्याये । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न क्रीणाति आप० ध० १४
१०६ आपस्तम्बधर्मसूत्रे [(प्र. ६.) क. १८. भवति सोमक्रयं न करोति तावदभोज्यान्न. ॥ २३ ॥ अग्नीषोमीयसंस्थायामेव ॥ २४ ॥ भोक्तव्यमिति वक्ष्यमाणमपेक्षते । अग्नीषोमीये पशौ संस्थिते समाप्त एव भोक्तव्यम् । न प्रागिति ॥ २४ ॥ पक्षान्तरमाह— हुतायां वपायां दीक्षितस्य भोक्तव्यम् ॥ २५ ॥ अग्नीषोमीयस्य वपायां हुताया वा दीक्षितस्यान्नं भोक्तव्यम् । तथा च बह्वृ- चब्राह्मणम्—'अशितव्यं वपायां हुतायाम्' इति ॥ २५ ॥ पक्षान्तरमाह— (१)यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्निति हि ब्राह्मणम् २६ इदं यज्ञार्थमिति व्यादेशे कृते शेषाद्भुञ्जीरन्निति ब्राह्मणं भवति । ब्राह्मणग्रहणं प्रीत्युपलब्धितः प्रवृत्तेरपस्मृतिता मा भूदिति प्रत्यक्षमेवाऽत्र ब्राह्मणमिति ॥ २६ ॥ क्लीबः ॥ २७ ॥ षण्डकः । सोऽप्यभोज्यान्नः ॥ २७ ॥ राज्ञां प्रेषकरः ॥ २८ ॥ राज्ञामिति बहुवचनात् ग्रामादेर्यः प्रेषकरः तस्याऽपि प्रतिषेधः ॥२८॥ अहविर्याजी ॥ २९ ॥ यश्चाऽहविषा नररुधिरादिना यजतेऽभिचारादौ यथा 'यमभिचरे- त्तस्य लोहितमवदानं कृत्वे' ति सोऽप्यभोज्यान्नः ॥ २९ ॥ चारी ॥ ३० ॥ चारो गूढचरः स्पशः । सोऽप्यभोज्यान्नः ॥ ३० ॥ तावत्पर्यन्तामित्यर्थ । प्रथमदिने 'अपराह्ने दीक्षयेत' इति अपराह्ने दीक्षा विहिता । ततः पूर्वं दीक्षणीयेष्टि । तत्समनन्तरदिने सोमक्रयण विहितम् । ततश्च प्रथमदिनेऽपराह्ना- दनन्तर द्वितीयदिनमध्याह्नात् पूर्वं दीक्षितान्नं न भोक्तव्यमिति फलितम् । इदं चैकदीक्षा- पक्षे । अनेकदीक्षापक्षे तु तदनुरोधेन दिनसंख्यावृद्धिः प्रत्येतव्या ॥ १. Cf. आप श्रौ १० १५ १६.
भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०७ अविधिना च प्रव्रजितः ॥ ३१ ॥ यश्चाऽविधिना प्रव्रजितः शाक्यादिस्सोऽप्यभोज्यान्नः ॥ ३१ ॥ यश्चाऽग्नीनपास्यति ॥ ३२ ॥ (१)(योऽनापद्यग्निं त्यक्त्वा प्रायश्चित्तं न करोति सोऽप्यभोज्यान्नः । अपि च) अविधिनेत्येव । यश्चाऽविधिना उत्सर्गेष्ट्या विनाऽग्नीनपास्यति सोऽप्यभोज्यान्नः ॥ ३२ ॥ यश्च सर्वान् वर्जयते सर्वान्नी च श्रोत्रियो निराकृति- र्वृषलीपतिः ॥ ३३ ॥ यश्च सर्वान् वर्जयते भोजने न कंचिद्भुङ्क्ते न कञ्चिद्भोजयति स सर्ववर्गी । यश्च सर्वान्नी सर्वेषामन्नं भुङ्क्ते तावुभावप्यभोज्यान्नौ । श्रोत्रिय इत्युभयोश्शेषः । श्रोत्रियोऽपि सन्नभोज्यान्न एवेति । निराकृतिः निःस्वा- ध्यायः । निर्व्रत इत्यन्ये । सोऽप्यभोज्यान्न । वृषलीपतिः क्रमविवाहे यस्य वृषली पत्नी जीवति इतरा मृताः स वृषलीपतिः । स श्रोत्रियोऽप्य- भोज्यान्न इति ॥ ३३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावष्टादशी कण्डिका ॥ १८ ॥
मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युप- वेशयते तावन्तं कालम् ॥ १ ॥ मदकरद्रव्यसेवया (२) विकृतिं गतो मत्तः । उन्मत्तो भ्रान्तः । बद्धो निगलितः । अणिकः पुत्रात् श्रुतग्राही, पुत्राचार्य इति शास्त्रेषु निन्दितः। प्रत्युपविष्टः ऋणादिना कारणेनाऽधमर्णादिकं निरुध्य तत्पार्श्व उपविष्टः । प्रत्युपवेशयिता त्वितरः, तस्य परिहारमकुर्वंस्तेन सह कामं सुचिरमास्यतामित्यासीनः । ता एते मत्तादयस्तावन्तं कालमभो ज्यान्नाः, यावन्मदाद्यनुवृत्तिः । अपर आह—अणिकः ऋणस्य दाता प्रत्युपवेष्टुरिदं विशेषणमिति ॥ १ ॥ क आद्यान्नः ॥ २ ॥ यद्येते अभोज्यान्नाः कस्तर्हि आद्यान्नः ? कस्य तर्ह्यन्नमशनीियमिति । १. कुण्डलान्तर्गतोऽधिकः क पु २. अप्रकृतिं इति. ख. पु.
१०८ आपस्तम्बधर्मसूत्रे [(प.६.)क.१९ यद्यप्येते अभोज्यान्ना इत्युक्ते परिशिष्टा भोज्यान्ना इति गम्यते । तथा- प्यनेकमतोपन्यासार्थं प्रश्नपूर्वक आरम्भः ॥ २ ॥ य ईप्सेदिति कण्वः ॥ ३ ॥ य एव प्रार्थयते स एवाऽऽश्यान्न इति कण्व ऋषिर्मन्यते (१)प्रति- षिद्धवर्जम् ॥ ३ ॥ पुण्य इति कौत्सः ॥ ४२ ॥ सर्ववर्णानां स्वधर्मे वर्तमानाना' (१८.१३.) मित्युकत्वात् भोज्यान्ना- स्सर्वे पुण्या एव । इह पुनः पुण्यग्रहणमतिशयार्थम् । तपोहोमजप्यैः स्वधर्मेण च युक्त पुण्य । स स्वयमप्रार्थ्यमानोऽपि भोज्यान्न इति कौ- त्सस्य पक्षः ॥ ४ ॥ यः कश्चिद्दद्यादिति वार्ष्यायणिः ॥ ५ ॥ यः कश्चित्पुण्योऽपुण्यो वा सततं दानशील. । स भोज्यान्न इति वार्ष्या- यणिराह । तथा च मनुः— (२)श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।' इति ॥ ५ ॥ अत्रोपपत्तिः— यदि हि रजः स्थावरं पुरुषे भोक्तव्यमथ चेच्चलं दानेन निर्दोषो भवति ॥ ६ ॥ रजः पापम् । तद्यदि पुरुषे कर्तरि स्थावरं स्थिरं नोपभोगमन्तरेण क्षीयते तदा ततः प्रतिग्रहेऽपि भोक्तरि संक्रमाभावात् भोक्तव्यम् । अथ चेच्चलमुपभोगमन्तरेणाऽपि क्षीयते तदा सततदानशीले न मुहूर्त- मपि पापमवतिष्ठत इति कुतो भोक्तुर्दोष इति ॥ ६ ॥ शुद्धा भिक्षा भोक्तव्यैककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ॥ ७ ॥ धार्मिकेणोद्यता आहृता भिक्षा शुद्धा । सा भोज्येत्येकादीनां पञ्चानां पक्षः । पुष्करसादिः(३) पौष्करसादिः । आदिवृद्ध्यभावश्छान्दसः ॥ ७ ॥ १. प्रतिषिद्धवर्जम् , इति नास्ति क. पुस्तके । २. म. स्मृ ४ २२८ ३. 'आचार्यः' इत्यधिक क. पुस्तके,
भोज्यान्नाः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०९ सर्वतोपेतं वार्ष्यायणीयम् ॥ ८ ॥ सर्वत उपेतं सर्वतोपेतम् । छान्दसो गुणः । उपेतमयाचितोपप- न्नम् । तत्सर्ववर्णेष्वपि भोज्यमिति वार्ष्यायणीय मतम् ॥ ८ ॥ इदानीं स्वमतमाह— पुण्यस्येप्सतो भोक्तव्यम् ॥ ९ ॥ कण्वकुत्सयोः पक्षौ समुच्चितावाचार्यस्य पक्षः(१) ॥ ९ ॥ पुण्यस्याऽप्यनीप्सतो न भोक्तव्यम् ॥ १० ॥ यः प्रार्थितोऽपि नेत्यसकृदुक्त्वा कथंचिदापादितेप्सः(२) सोऽनी- प्सन्नित्युच्यते, तस्य पुण्यस्याप्यभोज्यमिति । अपर आह—अनीप्सत इति कर्तरि षष्ठी । पुण्यस्याप्यन्नं न भोज्यं, यदि भिक्षमाणः पूर्ववैरा- दिना स्वयमनीप्सन् भवतीति ॥ १० ॥ यतः कुतश्चाऽभ्युद्यतं भोक्तव्यम् ॥ ११ ॥ ‘सर्वतोपेत’ (१९८.) मित्युक्तमेव पुनरुच्यते विशेषविवक्षया ॥११॥ तमाह— नाऽननियोगपूर्वमिति हारीतः ॥ १२ ॥ ‘अद्य तुभ्यमिदमाहरिष्यामि तद्भवता ग्राह्य’मिति निवेदनं नियो गः। तदभावः अनियोगः । पुनर्नञ्समासः । द्वौ नञौ प्रकृतमर्थं गम- यत । अननियोगो नियोगः तत्पूर्व चेदभ्युद्यतं न भोज्यमिति ॥ १२ ॥ अथ पुराणे श्लोकावुदाहरन्ति— (३)उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः ॥ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते ॥ इति॥१३॥ १. 'आचार्यस्य पक्षेण' इति क, पु. २. सोऽल्पेप्सुस्सन्ननीप्सन्नित्युच्यते' इति क पु. ३. नाद्यतनभविष्यत्पुराणीयमिदं वचनम् । Cf मनु ४. २५१ २५२.
११० आपस्तम्बधर्मसूत्रे [ (प्र.६.)क. १९. अथ अपि च पुराणे- (१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥' इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यम्य धारिताम् । आहृतां स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात् भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनात् । यस्तु तामभ्य- धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि पञ्च च । अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुर्निन्दा- र्थवादः ॥ १३ ॥ (३)चिकित्सकस्य मृगयोश्शल्यकृन्तस्य पाशिनः । कुलटायाष्षण्डकस्य च तेषामन्नमनाद्यम् ॥१४॥ चिकित्सको भिषक् । मृगयुर्मृगघाती लुब्धकः । शल्यकृन्तः शस्त्रेण ग्र- न्थ्यादीनां छेत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगादीनां ग्राह- कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः । एतेषां चिकित्सकादीनामन्नमनाद्यम् । चिकित्सकषण्डकयोः पुनर्वच- नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणं शक्यमकर्तुम् । एवं तर्हि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्यपौन- रुक्त्यम् ॥ १४ ॥ अथाऽप्युदाहरन्ति -- अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्करे ॥ इति ॥१५॥ षडङ्गस्य वेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । सोऽन्नादे मार्ष्टि लिम्पति । किम् ? प्रकरणादेन इति गम्यते । भ्रूणघ्नो योऽन्नमत्ति तस्मिंस्तदेनः संक्रामति । तस्मात्तस्योद्यतमप्यभोज्यामिति प्रकरणस- ङ्गतः पादः । इतरत् पुराणश्लोके पठ्यमाने पठितम् । अनेनसं योऽभि- शंसति मिथ्यैव ब्रूते-इदं त्वया कृतमिति । स तस्मिन्नभिशंसति तदेनो १. अमरको. १. वा ५. २. मनु प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतिर्यस्मिन्निति मानवे दर्शनात्' इति ख. पु. ३. Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि ग्रहणस्य वैयर्थ्यम् ।
उज्ज्वलोपेते प्रथमः प्रश्नः । १११ मार्ष्टि । मनुस्तु— (१)पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात्तुल्यदोषस्स्यान्मिथ्या द्विर्दोषभाग्भवेत् ॥ इति द्वैगुण्यमाह । तदभ्यासे द्रष्टव्यम् । स्तेनः प्रकीर्णकेश’ (२५ ४.) इति वक्ष्यति । स एव तृतीयस्य पादस्याऽर्थः । कर्तृभेदादपौनरुक्त्यम् । सङ्गरः प्रतिज्ञा प्रतिश्रवः । सत्यसङ्गर इति यथा । यः प्रतिश्रुत्य न ददाति सोऽनृतसङ्गर इति । ककारस्तु छान्दसः । तस्मिन् याचकः स्वयमेनो मार्ष्टि । तस्मात्प्रतिश्रुतं देयमिति ॥ १५ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तावेकोनविंशी कण्डिका ॥ १९ ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने षष्ठः पटलः ॥ ६ ॥ १ म. स्मृ. श्लोकोऽयमिदानीं मुद्रितकोशेषु नोपल+यते ।