आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
८४ आपस्तम्बधर्मसूत्रे [ (प.५.) क.१५ श्रावणे मासि सम्प्राप्ते सर्वा नद्यो रजस्वलाः(१) ।' इति स्मृत्यन्तरम् । एवंभूतदोषरहितास्वप्स्वाचम्य प्रयतो भवति । प्रायत्यार्थमाचमनं भूमिगतास्वप्सु कर्तव्यमिति ॥ २ ॥ यं वा प्रयत आचमयेत् ॥ ३ ॥ यं वा प्रयतोऽन्य आचमयेत् सोऽपि प्रयतो भवति । सर्वथा स्वयं वाम- हस्तावर्जिताभिरद्भिराचमनं न भवति । एतेन शास्त्रान्तरोक्तं कमण्ड- लुधारणमप्याचार्यस्याऽनभिमतं लक्ष्यते। अलाबुपात्रेण नालिकेरपात्रेण वा स्वयमाचमनमाचरन्ति शिष्टाः ॥ ३ ॥ न वर्षधारास्वाचामेत् ॥ ४ ॥ पूर्वोक्तेन प्रकारेण प्रायत्यार्थस्याचमनस्य वर्षधारासु प्रसङ्गाभा- वात् पिपासितस्य पानप्रतिषेधार्थमिति केचित् । अपर आह-अस्मा- देव प्रतिषेधाच्छिक्यादिस्थकरकादेर्या धारा तत्र प्रायत्यार्थमाचम- न(२) भवतीति ॥ ४ ॥ तथा(३) प्रदरोदके ॥ ५ ॥ भूमेः स्वयं दीर्णः प्रदेशः प्रदर तत्र यदुदकं तस्मिन् भूमिगतेऽपि नाऽऽचामेत् ॥ ५ ॥ तप्ताभिश्चाऽकारणात् ॥ ६ ॥ तप्ताभिरद्भिर्नाचामेत् अकारणात् ज्वरादौ कारणे सति न दोषः । 'तप्ताभि' रिति वचनात् शृतशीताभिरदोषः । तथा चोष्णानामेव प्र- तिषेधः स्मृतिषु (४)प्रायो भवति ॥ ६ ॥ रिक्तपाणिर्वयस उद्यम्याऽप उपस्पृशेत् ॥ ७ ॥ वय इति पक्षिनाम । यो रिक्तपाणिस्सन् वयसे पक्षिण इद्यम्य तस्य प्रोत्सारणाय पाणिमुद्यच्छते स तत्कृत्वाऽप उपस्पृशेत् तेनैव पाणिना । 'रिक्तपाणि' रिति वचनात् काष्ठलोष्ठादिसहितस्य पाणेरुद्यमने न दोषः । केचिदुपस्पर्शनमाचमनमाहुः ॥ ७ ॥ १. एतदनन्तर 'त्रिदिनं च चतुर्थेऽन्हि शुद्धास्स्युर्नाह्नवी यथा' इत्यर्धमधिक दृश्यते ग. पु. स्मृत्यन्तरं' इति च नास्ति २. न मवत्येव इति ख. ग. पु ३. तस्मात् प्रदरादुदकं नाचामेत्' इति तैत्तिरीयब्राह्मणम् । ४ प्रायशः इति. ख. पु. स्मृतिषु । इत्यन्तमेव च पुस्तके ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८५ शक्तिविषये न मुहूर्तप्यप्रयतः स्यात् ॥ ८ ॥ शक्तौ सत्यां मुहूर्त्तमप्यप्रयतो न स्यात् । आचमनयोग्यजलं दृष्ट्वैव मूत्र- पुरीषादिकं कुर्यात् यदि तावन्तं कालं(१) वेगं धारयितुं शक्नुयात् इति ॥ ८ ॥ नग्नो वा ॥ ९ ॥ न मुहूर्तमपि स्यादिति सम्बध्यते, शक्तिविषय इति च । व्रणा- दिना कौपीनाच्छादनाशक्तौ न दोषः ॥ ९ ॥ नाप्सु सतः प्रयमणं विद्यते ॥ १० ॥ येन प्रयतो भवति तत्प्रयमणमाचमनम् । करणे ल्युट् । तदप्सु सतो वर्त- मानस्य न भवति । जलमध्ये आसीनोऽपि नाचामेत् ॥ १० ॥ उत्तीर्य त्वाचामेत् ॥ ११ ॥ तीर उत्तीर्याचामेत् न जल इति । अयमर्थो न विधेयः । पूर्वेण गतत्वात् । तस्मादयमर्थः-यदा नदीमुत्तरति नावा प्रकारान्तरेण वा तदा तामु- त्तीर्य तीरान्तरं गतः प्रयतोऽप्याचामेत् । नद्यादेरुत्तरणमाचमनस्य नि- मित्तमिति । (२)तुरप्यर्थः ॥ ११ ॥ नाऽप्रोक्षितमिन्धनमग्नावादध्यात् ॥ १२ ॥ श्रौते स्मार्ते लौकिके वाऽग्नौ अप्रोक्षितमिन्धनं नाऽऽदध्यात् न प्रक्षिपेत् । केचिल्लौकिके नेच्छन्ति ॥ १ ॥ मूढस्वस्तरे चासंस्पृशन्नन्यानप्रयतानप्रयतो मन्येत।१३। (३)पतितचण्डालसूतिकादेकपाशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेल’ मिति गौतम । (४)तस्मिन्विषय इदमुच्यते आसनतया शयनतया वा सुष्ठ्वास्तीर्णः पलालादिसङ्घातः स्वस्तर । पृषोदरादिषु दर्शनाद्रूपसि- द्धिः । यत्रातिश्लक्ष्णतया पलालादेर्मूलाग्रविभागो न ज्ञायते स मूढः । मूढश्चासौ स्वस्तरश्च मूढस्वस्तर तस्मिन् पतितादिष्वप्रयते- ष्वासीनेषु यः कश्चित्प्रयत उपविशेत् न च तान् संस्पृशेत् । तदा स १ तावन्तं कालं इति नास्ति क पु २ तुशब्दोऽप्यर्थे इति. क. पु ३ गौ ध. १४ ३०. उदक्या रजस्वला ४ तत्रेदमुच्यते इति ग. पु. पाठस्समीचीनः ।
८६ आपस्तम्बधर्मसूत्र [(१.५.)क. १५. प्रयतो मन्येत । यथा प्रयतमात्मानं मन्यते प्रयतोऽस्मीति तथैव मन्येत । नैवंविधे विषये तत्स्पृष्टिन्यायः प्रवर्तते इति ॥ १३ ॥ तथा तृणकाष्ठेषु निखातेषु ॥ १४ ॥ तृणकाष्ठेष्वपि भूमौ निखातेषु तत्स्पृष्टिन्यायो न भवति ॥१४॥ प्रोक्ष्य वास उपयोजयेत् ॥ १५ ॥ शुद्धमपि वास प्रोक्ष्यैवोपयोजयेत् वसीत । अपर आह-अशुद्धस्यापि वाससः प्रोक्षणमेव शुद्धिहेतुरिति ॥ १५ ॥ शुनोपहतः सचेलोऽवगाहेत ॥ १६ ॥ शुना उपहतः स्पृष्टः । यद्यपि चेलं न शुना स्पृष्टं तथापि सचेलोऽवगाहेत भूमिगतास्वप्सु स्नायात् नोद्धृतादिभिः । दष्टस्य तु स्मृत्यन्तरे प्राय- श्चित्तम् । तत्र वसिष्ठः(१) ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति॥' अङ्गिराः- (२)'ब्रह्मचारी शुना दष्टस्त्रिरात्रेणैव शुद्ध्यति । गृहस्थस्तु द्विरात्रेण ह्येकाहेनाऽग्निहोत्रवान् ॥ नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । तदेव त्रिगुणं वक्त्रे मूर्ध्नि चेत्स्याच्चतुर्गुणम् ॥ क्षत्रविट्शूद्रयोनिस्तु स्नानेनैव शुचिर्भवेत् । द्विगुणं तु वनस्थस्य तथा प्रव्रजितस्य च ॥ ब्राह्मणी तु शुना दष्टा सोमे दृष्टिं निपातयेत् । यदा न दृश्यते सोमः प्रायश्चित्तं तदा कथम् । यां दिशं तु गतस्सोमस्तां दिशं त्ववलोकयेत् ॥ सोममार्गेण सा पूता पञ्चगव्येन शुद्ध्यति ॥' इति ॥ १६ ॥ प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ॥ १८ ॥ १. वचनमिदं न वसिष्ठस्मृतावुपलभ्यते । २. वचनानीमानि स्मृतिमुक्ताफलकाररपि प्रायश्चित्तकाण्डे अङ्गिरोवचनत्वेनैवोपन्य- स्तानि । परन्तु इदानीमुपलभ्यमानमुद्रिताङ्गिरःस्मृतिपुस्तके नोपलभ्यन्ते ॥ वासिष्ठत्वेन तु लिखितं ख. च. पुस्तकयोष्टिप्पण्याम् ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८७ शुना स्पृष्टं प्रदेशं प्रक्षाल्याग्निना च संस्पृश्य पुनश्च प्रक्षाल्य पादौ च प्रक्षा- ल्य पश्चादाचम्य प्रयतो भवति । व्यवस्थितविकल्पोऽयम् ॥ (१)ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमभ्युपहन्यते । तत्र स्नानविधिः प्रोक्तो ह्यधः प्रक्षालनं स्मृतम् ॥' इति मानवे दर्शनात् ॥ १७ ॥ अग्निं नाप्रयत आसीदेत् ॥ १८ ॥ अप्रयतस्सन्नग्निं नासीदेत् अग्नेरासन्नो न भवेत्, यावति देशे ऊष्मोपलम्भः । तत्राप्यशक्तौ न दोषः ॥ १८ ॥ इषुमात्रादित्येके ॥ १९ ॥ इषुमात्रादर्वाङ्नासीदेत् । ऊष्मोपलम्भो भवतु वा मा भूदित्येके मन्यन्ते ॥ १९ ॥ न चैनमुपधमेत् ॥ २० ॥ अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोषः । 'मुखेनोपधमेदग्निं मुखाद्धयग्निरजायत ।' इति स्मृत्यन्तरे दर्शनात् । (२) नाग्निं मुखेनोपधमे' दिति मानवे दर्शनादुभयोर्विकल्पः । अपर आह—वाजसनेये श्रौतप्रकरणे 'मुखाद्धयग्निरजायत । तस्मान्मुखेनो- पसमिन्ध्या' दिति दर्शनात् श्रौतेषु मुखेनोपसमिन्धनम्, अन्यत्र स्मार्ते प्रतिषेध इति । अन्ये तु वैणवेनायसेन वा सुषिरेणोपसमिन्धनमिच्छन्ति । एवं हि मुखव्यापारस्यानपायाच्छ्रुतिरप्यनुगृहीता भवति, आस्यबिन्दूनां पत- नशङ्काभयात् प्रतिषेधस्मृतिरपीति ॥ २० ॥ खट्वायां च नोपदध्यात् ॥ २१ ॥ खट्वायां खट्वाया अधोऽग्निं नोपदध्यात् । अत्राप्यशक्तौ न दोषः ॥२१॥ प्रभूतैधोदके ग्रामे यत्राऽऽत्माधीनं प्रथमणं तत्र वासो धार्यो ब्राह्मणस्य ॥ २१ ॥ १ म. स्मृ मुद्रितमनुस्मृतिपुस्तकेषु नाय श्लोक उपलभ्यते । २. म. स्मृ ४ ५३.
८८ आपस्तम्बधर्मसूत्रे [ (प.५) क. १५. प्रभूत एधः उदकं च यस्मिन् ग्रामे तत्र वासो धर्म्यं धर्म्म्यः । अत्रापि न सर्वत्र । किं तर्हि ? यत्रात्माधीन प्रथमण प्रायत्यं मूत्रपुरीषप्रक्षालना- दीनि यत्रात्माधीनानि तत्र । यत्र तु कूपेष्वेवोदकं तत्र बहुकूपेऽपि न वस्तव्यम् । ब्राह्मणग्रहणाद्वर्णान्तरस्य न दोषः । ग्रामग्रहणादेवंभूतेषु घोषादिष्वपि न वस्तव्यम् ॥ २२ ॥ मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपानन्नलेपान्· च्छिष्टलेपान् रेतसश्च ये लेपास्तान्प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवति ॥ २३ ॥ मूत्रं पुरीषं वा कृत्वा उत्सृज्य तयोर्मूत्रपुरीषयोर्ये लेपास्तस्मिन्प्रदेशे स्थिताः प्रदेशान्तरे वा पतिताः तान् सर्वान् । (१)अन्नलेपांश्चानुच्छिष्टा नपि उच्छिष्टलेपांश्चानन्नलेपानपि । तथा रेतसश्च ये लेपाः स्वप्नादौ मैथुने वा तान् सर्वानद्भिर्मृदा च प्रक्षाल्य पादौ च लेपवर्जितावपि प्रक्षाल्य पश्चादाचम्य प्रयतो भवति । अत्र मृत्प्रमाणस्य सङ्ख्यायाश्चानुक्तत्वात् यावता गन्धलेपक्षयो भवति तावदेव विवक्षितम् । तथा च याज्ञवल्क्यः— (२)गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ।' इति । देवलस्तु व्यक्तमाह— (३)'यावत्स शुद्धिं मन्येत तावच्छौचं समाचरेत् । प्रमाणं शौचसङ्ख्याया न शिष्टैरुपदिश्यते ॥' इति । पैठीनसि — 'मूत्रोच्चारे कृते शौचं न स्यादन्तर्जलाशये । अन्यत्रोद्धृत्य कुर्यात्तु सर्वदैव समाहितः ।' इति ॥ २३ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ पञ्चदशी कण्डिका ॥ १. अन्नले पानुच्छिष्टानप्युच्छिष्टलेपानन्नलेपानपि. इति ख. पुस्तकेऽपपाठः । २. या. स्मृ. १. १७. ३ मुद्रितदेवलस्मृताविदं वचन नोपलभ्यते ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८९ तिष्ठन्नाऽऽचामेत् प्रह्वो वा ॥ १ ॥ तिष्ठन् प्रह्वो वा नाचामेत् । नायं प्रतिषेधः शक्यो वक्तुम् । कथम् ? 'आसीनस्त्रिराचामे' (१६ २.) दिति वक्ष्यति । ततश्च यथा शयानस्याच- मनं न भवति तथा तिष्ठतः प्रह्वस्य च न भवति । एवं तर्हि शौचार्थस्या- चमनस्य नायं प्रतिषेधः । किं तर्हि ? पानीयपानस्य प्रतिषेधः । तथा गौतमः-(१)'नाञ्जलिना जलं पिबेत् । न तिष्ठ' न्निति । अपर आह-अस्मा देव प्रतिषेधात्क्वचित्तिष्ठतः प्रह्वस्य चाऽऽचमनमभ्यनुज्ञातं भवति । तेन 'भूमिगतास्वाप्सुव' त्यत्र तीरस्याऽयोग्यत्वे ऊरुदघ्ने (२)जानुदघ्ने वा जले स्थितस्याऽऽचमनं भवति । गौतमीयेऽपि(३) न तिष्ठन्नुद्घृतोदकेनाचा मे' दिति सूत्रच्छेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेध इति ॥ १ ॥ अथाऽऽचमनविधिः- आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः ॥ २ ॥ अद्भिः तृतीया द्वितीयार्थे । अत्राऽनुक्ते स्मृत्यन्तरवशा(४)दुपस्क्रियते । आसीनः शुचौ देशे, नासने, भोजनान्ते त्वासने । दक्षिणं बाहु(५) जान्व न्तरे कृत्वा प्राङ्मुख उपविष्टः उदङ्मुखो वा हृदयङ्गमा(६) अपः करत- लस्थासु यावतीषु माषो निमज्जति तावती फेनबुद्बुदरहिताः वीक्षिता- स्त्रिराचामेत् पिबेत्, ब्राह्मणः हृदयङ्गमाः, क्षत्रियः कण्ठगताः, वैश्यस्ता- लुगताः, शूद्रो जिह्वास्पृष्टास्सकृत् ॥ २ ॥ (७)त्रिरोष्ठौ परिमृजेत् ॥ ३ ॥ परिमृज्यात् ॥ ३ ॥ द्विरित्येके ॥ ४ ॥ तुल्यविकल्पः ॥ ४ ॥ सकृदुपस्पृशेत् ॥ ५ ॥ मध्यमाभिस्तिसृभिरङ्गुलीभिरोष्ठौ ॥ ५ ॥ १. गौ ध. ९ ९, १०. २. नाभिदघ्ने, इति च. पु ३ गौ. ९. १० गौतमोऽपि न तिष्ठन्नुद्धृतोदकेनाचा मेत् इति सूत्रभेदादुद्धृतो दकेनैव तिष्ठतः प्रतिषेधमाह" इति क. पु. ४. 'उपस्तूयते' इति ग. पु. ५. ऊर्वन्तरे इति. ख ग. पु. ६. आपः इति. ख. ग. पु. ७. इदमग्रिमं च सूत्रमेकीकृतं. ग. पुस्तके. आप० ध० १२
९० आपस्तम्बधर्मसूत्रे [ (प्र. १.) क. १६. द्विरित्येके ॥ ६ ॥ तुल्यविकल्पः ॥ ६ ॥ दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रि- याण्युपस्पृशेत् चक्षुषी नासिके श्रोत्रे च ॥७॥ दक्षिणेन पाणिना सव्यं पाणिं प्रोक्ष्य तथा पादौ शिरश्च, इन्द्रियाण्युपस्पृशेत् अ- ङ्गुलीभिः । सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे—चक्षुषी नासिके श्रोत्रे चे- ति । इन्द्रियाणीति वचनं स्वरूपकथनमात्रम् । तत्राऽङ्गुष्ठानामिकाभ्यां चक्षुषी । केचित्युगपत्, केचित्पृथक् । अङ्गुष्ठप्रदेशिनीभ्यां नासिके । अ- ङ्गुष्ठकनिष्ठिकाभ्यां श्रोत्रे । (१)अत्र सहभावस्याऽशक्यत्वात् पृथग्भा वस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् ॥ ७ ॥ अथाऽप उपस्पृशेत् ॥ ८ ॥ इन्द्रियस्पर्शनानन्तरं हस्तौ प्रक्षालयेत् ॥ ८ ॥ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृ- जेत्सकृदुपस्पृशेत् ॥ ९ ॥ भोजनं करिष्यन् प्रयतोऽपि द्विराचमनं कुर्यात् । अत्र विशेषः-द्विः परिमृजेत् , न विकल्पेन त्रिः । सकृदुपस्पृशेत् , न विकल्पेन द्विः । ‘प्रयतोऽपी’ति वचनादप्रायत्ये सर्वत्र द्विराचमनमाचार्यस्याऽभिप्रेतम् । तत्र स्मृत्यन्तरम्— ‘भुक्त्वा क्षुत्वा च सुप्त्वा च ष्ठीवित्वोक्त्वाऽनृतं वचः । आचान्तः पुनराचामेद्वासो विपरिधाय च’ ॥ ९ ॥ श्यावान्तपर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् ॥ १० ॥ दन्तमूलात्प्रभृत्योष्ठौ । तत्राऽलोमकः प्रदेशः श्यावः । तस्यान्तः सलोमकः। तत्पर्यन्तावोष्ठावुपस्पृश्याऽऽचामेत् । ओष्ठयोरलोमकप्रदेशमङ्गुल्या(२) काष्ठादिना वोपस्पृश्याऽऽचामेदिति ॥ १० ॥ १. अत्र सहभावस्याशक्यत्वात् पृथगपिक्रियते । अत्र पृथग्भावस्य निश्चितत्वात् पूर्वत्रापि पृथगेवेति युक्तम् इति ख. घ. पु. । युक्तमित्यन्ये' इति. क पु. २. अङ्गुल्याऽऽत्मकनिष्ठादिना वेति क. पुस्तकेऽपपाठः ।
आचमनविधिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९१ न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भि- र्यावन्न हस्तेनोपस्पृशति ॥ ११ ॥ श्मश्रूणि यदा आस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्भिरुच्छिष्टो न भवति यावन्न हस्तेनोपस्पृशति । (१)उपस्पर्शने तूच्छिष्टो भवति । ततश्चाऽऽचामेदिति । अस्मादेव प्रतिषेधात् ज्ञायते—यत्किञ्चिदपि द्रव्य- मन्तरास्ये (२)सदुच्छिष्टताया निमित्तमिति ॥ ११ ॥ य आस्याद्विन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् ॥ १२ ॥ भाषमाणस्याऽऽस्यात् पतन्तो ये लालाबिन्दव उपलभ्यन्ते चक्षुषा स्प- र्शनाद्वा उपलब्धुं योग्यास्तेष्वाचमनं विहितम् । वेदोच्चारणे तु गौतमः— (३)'मन्त्रब्राह्मणमुच्चारयतो ये बिन्दवः शरीरे उपलभ्यन्ते न तेष्वा- चमन'मिति ॥ १२ ॥ ये भूमौ न तेष्वाचामेदित्येके ॥ १३ ॥ ये बिन्दवो भूमौ पतन्ति, न शरीरे, तेषु नाचामेदित्येके मन्यन्ते । स्वमतं तु तेष्वप्याचामेदिति ॥ १३ ॥ स्वप्ने क्षवथौ (४)शिङ्घाणिकाऽश्वालम्भे लोहितस्य केशानामग्नेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापन्थं च गत्वाऽमेध्यं चोपस्पृश्याऽप्रयतं च मनुष्यं नीवीं च परि- धायाऽप उपस्पृशेत् ॥ १४ ॥ स्वप्नः (५)स्वापः । क्षवथुः क्षुतम्, तयोः कृतयोः। शिङ्घाणिका नासिकाम- लम् । अश्रु नेत्रजलम्, तयोरालम्भे स्पर्शे । लोहितस्य रुधिरस्य । केशानां शि- रोगतानां भूमिगतानां च । अग्न्यादीनां चतुर्णामालम्भे । महापन्थं च गत्वा । अमेध्यं च गोव्यतिरिक्तानां मूत्रपुरीषादि । ताम्बूलनिषेकादि चोपस्पृश्य । अप्रयतं च मनुष्यमुपस्पृश्य । नीवी प्रसिद्धा तयोगादधोवासो लक्ष्यते । तच्च परिधायाप उपस्पृशेत् । केषुचित् स्नानं केषुचिदाचमनं केषुचित् स्पर्शनमात्र यावता प्रयतो मन्यते ॥ १४ ॥ १. स्पर्शने इति क. पु. २. सत् तदुच्छिष्टताया निमित्तमिति क. पु. ३. नास्ति वचनमिदं मुद्रितगौतमधर्मकोशेषु मदीये लिखितपुस्तके च । ४. शृङ्घाणिका शृङ्खणिका शृङ्गाणिका इत्यपि पाठाः । ५. स्वापन इति ख. पु.
९२ आपस्तम्बधर्मसूत्रे [(प.५.)क. १६ आर्द्रं वा शकृदोषधीर्भूमिं वा ॥ १५ ॥ (१)उपस्पृशेदित्येव । त्रिष्वाद्वैशब्दस्सम्बध्यते लिङ्गवचनादिविपरि- णामेन । आर्द्रं वा शकृदुपस्पृशेत् ओषधीर्वा आर्द्रा, भूमिं वा आर्द्रां । पूर्वोक्ते- ष््वेव (२)कल्पेषु वैकल्पिकमिदम् ॥ १५ ॥ एवमाचमनं (३)सह निमित्तैरुक्तम् । अथाऽभक्ष्याधिकारः— हिंसार्थेनाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥ असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिंसार्थेनाऽसिना छिन्न तदभोज्यम् ॥ १६ ॥ दद्भिरपूपस्य नाऽपच्छिन्द्यात् ॥ १७ ॥ अपूपग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीयार्थे षष्ठी । दन्तैरपूप नापच्छिन्द्यात् । किं तु हस्तादिभिरपच्छिद्य भक्षयेत् ॥ १७ ॥ यस्य कुले म्रियेत न तत्राऽनिर्देशे भोक्तव्यम् ॥ १८ ॥ यस्य कुले कश्चिन्म्रियते असपिण्डतायां सत्यां (४)तत्राऽनिर्गते दशाहे न भोक्तव्यम् । ‘अनिर्दशे’ इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि- ष्वधिकं पक्षिण्यादिषु न्यूनम् ॥ १८ ॥ तथाऽनुत्थितायां सूतकायाम् ॥ १९ ॥ सूतका सूतिका । तस्यामनुत्थितायाम् । उत्थानं नाम सूतिकागारे नि- वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति । (५)‘दशम्यामूत्थिताया’मिति गृहे उक्तत्वात् । अत्राप्याशौचकालोप- लक्षणत्वाद्यावदाशौचमभोजनम् । अत्राऽङ्गिराः— ‘ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् । सूतके शाव आशौचे त्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥ अन्तःशवे च ॥ २० ॥ १. उपस्पृशेदिति विपरिणामेनेत्यन्तो भाग क. पुस्तके नास्ति । २. ‘सर्वेषु’ इति ख च. पु । स्वल्पेषु इति ग. पु. । ३. ‘सनिमित्त’मिति ख. पु. ४. ‘तत्रातीते दशाहे भोक्तव्यम्’ इति ग पु. ५. आप. गृ. १५ ८
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९३ याव(१)द्ग्रामात्र निर्ह्रीयेते शवः तावत्तत्र न भोक्तव्यम् । आचारस्तु धनुश्शतादार्वाक् । तत्रापि प्रदीपमारोप्य उदकुम्भं चोपनिधाय भुञ्जते यदि (२)समानवंशं गृहं न भवति ॥ २० ॥ अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ २१ ॥ अप्रयतेनाऽशुचिना उपहतं स्पृष्टमप्रयतं भवति । किंतु अशुद्धमप्यभोज्यं न भवति । कः पुनरप्रयतस्याऽभोज्यस्य च विशेषः ? उच्यते—अप्रयत- मन्नमग्नावधिश्रितमद्भिः प्रोक्षितं भस्मना मृदा वा संस्पृष्टं वाचा च प्रशस्तं प्रयतं भवति भोज्यं च । अभोज्यं तु लशुनादि न कथञ्चि- दपीति ॥ २१ ॥ अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ २२ ॥ अप्रयतेन तु शूद्रेणोपहृतमानीयमानं न भोज्यम् , स्पृष्टमस्पृष्टं च । स्पृष्टमे- वेत्यन्ये ॥ २२ ॥ यस्मिंश्चाऽऽन्ने केशास्स्यात् ॥ २३ ॥ तदप्यभोज्यम् । एतच्च पाकद्दशायामेव पतितेन केशेन सह यत्प- कमन्नं तद्विषयम् । (३)पश्चात् केशसंसर्गे तु घृतप्रक्षेपादिना संस्कृतस्य भोज्यत्वं स्मृत्यन्तरोक्तम् ॥ २३ ॥ अन्यद्वाऽमेध्यम् ॥ २४ ॥ अन्यद्वाऽमेध्यं नखादि यस्मिन्नन्ने स्यात् तदप्यभोज्यम् । इदमपि पूर्ववत् । अत्र बौधायनः— (४)'केशकीटनखरोमाखुपुरीषाणि दृष्ट्वा तावन्मात्रमन्नमुद्धृत्य शेषे भोज्य'मिति । वसिष्ठस्तु (५)'कामं तु केश कीटानुत्सृज्याद्भिः प्रोक्ष्य भस्मनाऽवकीर्य वाचा प्रशस्तमुपयुञ्जीते'ति ॥ २४ ॥ अमेध्यैरवमृष्टम् ॥ २५ ॥ १ ग्रामान्तं न इति क. पु. २. समानवंशत्वं गृहाणा इति ख. पु. । समानं वंशगृहं न भवति इति क. पुस्तकेऽपपाठः । ३. भोजनकाले तु केशपाते घृतप्रक्षेपादिना तु संस्कृतं भोज्यम् । इति. घ. पु. ४ बौ. ध. २. १२. ६ ५ वा. ध १४ २३ उत्सृजीत इति ग. पु.
९४ आपस्तम्बधर्मसूत्रे [ (प्र.५.) क. १६. अमेध्यैः कलञ्जपलण्ड्वादिभिरवमृष्ट स्पृष्टमभोज्यम् ॥ २५ ॥ कीटो वाऽमेध्यसेवी ॥ २६ ॥ 'यस्मिंश्चान्ने केशः स्या'दिति व्यवहितमपि सम्बध्यते । अमेध्यसेवी कीटः पूत्यण्डाख्यः ॥ २६ ॥ मूषिकलाङ्गं वा ॥ २७ ॥ पूर्ववत्सम्बन्धः । मूषिकला मूषिकपुरीषम् । अङ्गं वा । समस्तमपि मूषिकग्रहणं सम्बध्यते । यस्मिन्नन्ने मूषिकस्याङ्गं पुच्छपादादि भवति तदप्यभोज्यम् ॥ २७ ॥ पदा वोपहतम् ॥ २८ ॥ प्रयतेनाऽपि पदा यत्स्पृष्टं तदप्यभोज्यम् ॥ २८ ॥ सिचा वा ॥ २९ ॥ सिक् वस्त्रदशा । परिहितस्य वाससः सिचा यत् स्पृष्टं तदप्य- भोज्यम् ॥ २९ ॥ शुना वाऽपपात्रेण वा दृष्टम् ॥ ३० ॥ दृष्टमिति प्रत्येकमभिसम्बध्यते । शुना वा दृष्टमपपात्रेण वा दृष्टं यत्तद- प्यभोज्यम् । पतितसूतिकाचण्डालोदक्यादयोऽपपात्राः, अपगताः पा- त्रेभ्यः । न हि ते पात्रे भोक्तुं लभन्ते ॥ ३० ॥ सिचा वोपहृतम् ॥ ३१ ॥ अपरिहितस्य शुद्धस्यापि वाससस्सिचा यदुपहृतमानीतं तदप्य- भोज्यम् ॥ ३१ ॥ दास्या वा नक्तमाहृतम् ॥ ३२ ॥ दास्या रात्रावाहृतमभोज्यम् । स्त्रीलिङ्गनिर्देशात् दासेनाऽऽहृते न दोषः । अन्ये लिङ्गमविवक्षितं मन्यन्ते । 'नक्त'मिति वचनाद्दिवा न दोषः ॥ ३२ ॥ भुञ्जानं वा ॥ ३३ ॥ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ षोडशी कण्डिका ॥
अभोज्यानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९५ यत्र शूद्र उपस्पृशेत् ॥ १ ॥ भोजनदशायां यदा शूद्र उपस्पृशेत् तदापि न भुञ्जीत । अत्र भुञ्जान- ग्रहणादन्यदा शूद्रस्पर्शे नाऽप्रायत्यमिति केचित् । अन्ये तु—सदा भव- त्येवाऽप्रायत्यम् , भोजनदशायां त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥ अनर्हद्भिर्वा समानपङ्क्तौ ॥ २ ॥ सर्वत्र वाशब्दः समुच्चये । अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पङ्क्तौ न भुञ्जीत ॥ २ ॥ भुञ्जानेषु वा यत्राऽनूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ॥ ३ ॥ समानपङ्क्ताविति वर्तते । समानपङ्क्तौ बहुषु भुञ्जानेषु यद्येको ऽनूत्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, तस्यां पङ्क्तावितरेषां न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥ ३ ॥ कुत्सयित्वा वा यत्राऽन्नं दद्युः ॥४॥ मूर्ख, वैश्ववेय, विषं भुङ्क्ष्वेति, एवं कुत्सयित्वा यत्रान्नं दद्युस्तदप्य भोज्यम् ॥ ४ ॥ मनुष्यैरवघ्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥ मनुष्यैरन्यैर्वा मार्जारादिभिरमेध्यैरवघ्रातमन्नमभोज्यम् । (२)अवेत्युपसर्ग- योगात् दूरस्थैर्गन्धाघ्राणे न दोषः ॥ ५ ॥ न नावि भुञ्जीत ॥ ६ ॥ नाव्यासीनो न भुञ्जीत, शुद्धेऽपि पात्रे ॥ ६ ॥ तथा प्रासादे ॥ ७ ॥ प्रासादो दारुमयो मञ्चः । तत्रापि न भुञ्जीत ॥ ७ ॥ कृतभूमौ तु भुञ्जीत ॥ ८ ॥ भूमावपि भुञ्जानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर आह—प्रासादोऽपि यदा मृदा कृतभूमिर्भवति, न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८ ॥ १. कोऽपि. इति. ग. पु. २ अवोपसर्गयोगात् इति क. पु. ३. इदं व्याख्यान्तरं नास्ति. ग. पुस्तके ।
९६ आपस्तम्बधर्मसूत्रे [ (प.५) क. १७. अनाप्रीते मृण्मये भोक्तव्यम् ॥ ९ ॥ यदि मृण्मये भुञ्जीत तदाऽनाप्रीते भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका- दावुपयुक्तम् ॥ ९ । आप्रीतं चेदभिदग्धे ॥ १० ॥ आप्रीतमेव चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ॥ परिमृष्टं लौहं प्रयतम् ॥ ११ ॥ लौहं लोहविकारभूतं कांस्यादि भोजनपात्रं भस्मादिभिः परिमृष्टं सत् प्रयतं भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवेत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥ निर्लिखितं दारुमयं ॥ १२ ॥ दारुमयं भाजनं निर्लिखितं तष्ट सत् प्रयतं भवति ॥ १२ ॥ यथागमं यज्ञे ॥ १३ ॥ यज्ञपात्रं तु यथागमं शोधितं प्रयतं भवति । तद्यथा अग्निहोत्र- हवणी दर्भैरद्भिः प्रक्षालिता, सोमपात्राणि (१) मार्जालीये प्रक्षालितानि, आज्यपात्राण्युष्णेन वारिणा ॥ १३ ॥ नाऽऽपणीयमन्नमश्नीयात् ॥ १४ ॥ आपणः पण्यवीथी । तत्र यत्क्रीतं लब्धं वा । तदापणीयम् । तच्च कृतान्नं नाश्नीयात् । व्रीह्यादिषु न दोषः ॥ १४ ॥ तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥ रसाः रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात् । (२) आममांसादि वर्जयित्वा ॥ १५ ॥ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥ तैलसर्पिषी त्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिच्य पाकेन तैल- सर्पिषी(३)शांधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं- सृज्येत्यन्ये(४) ॥ १६ ॥ १. मार्जालीयः सोमयागे सदोनामकमण्डपस्याग्नेयकोणे स्थितः स्थानविशेषः । २. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु. ४ व्याचक्षते इत्यधिकं ख. ग. पु
अभोज्यान्नानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९७ कृतान्नं पर्युषितमखाद्यापेयानाद्यम् ॥ १७ ॥ कृतान्नं पक्वान्नं तत्पर्युषितं पूर्वेद्युः पक्वं सत् अखाद्यम् । अपेयमनाद्यं च यथायोगं खरविशदं द्रवं मृदुविशदं सिद्धं च ॥ १७ ॥ शुक्तं च ॥ १८ ॥ शुक्तं यत्कालपाकानोऽम्लीभूतं तदपर्युषितमपि अखाद्यापेया- नाद्यम् ॥ १८ ॥ फाणितपृथुकतण्डुलकरम्भ(१) भ्रूजसक्तुशाकमांसपि- ष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ॥ १९ ॥ अनन्तरोक्तं विधिद्वयं फाणितादीन् वर्जयित्वा द्रष्टव्यम् । फाणितं पा- नविशेषः । इक्षुरस इति केचित् । (२) भ्रष्टानां व्रीहीणां तण्डुलाः पृथूकृताः पृथुकाः । करम्बो दधिसक्तुसमाहारः यः करम्भ इति प्रसिद्धः । वे- देऽप्युभयं भवति(३) 'यत्करम्बेर्जुहोति' । (४) "धानाः करम्भः परि- वापः" इति । भ्रूजाः भ्रष्टा यवाः । क्षीरविकारो दध्यादि । प्रसिद्धमन्यत् ॥ अथ 'शुक्तं चे'त्यस्य विधेः शेषः— शुक्तं चाऽपरयोगम् ॥ २० ॥ परेण द्रव्यान्तरेण योगो यस्य तत् परयोगं, ततोऽन्यदपरयोगम् । तदेव शुक्तं वर्ज्यम् । यत्तु दध्यादि द्रव्यान्तरसंसृष्टं शुक्तं तद्भोज्यमेव । एवं च पूर्वत्रैवाऽपरयोगमिति विशेषणं वक्तव्यम् । इदमेव वा सूत्रमस्तु । सूत्रद्वयकरणं त्वाचार्यप्रवृत्तिकृतम् । यथा 'सलाद्वृक्येकसृकोलूकशब्दा' (पृ. ५८) इति पूर्वं सामान्येनाभिधाय 'सलाद्वृक्यामेकसृक इति स्वप्न- पर्यान्त' (पृ. ६५) मिति पश्चाद्विशेष उक्तः ॥ २० ॥ सर्वं मद्यमपेयम् ॥ २१ ॥ मद्यं मदकरं तत्सर्वमपेयम् । अत्र स्मृत्यन्तरवशाद्व्यवस्था । तत्र मनुः— (५) 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका न पातव्या (६) तथा सर्वा द्विजोत्तमैः ॥' इति । सुराव्यतिरिक्तं तु मद्यं ब्राह्मणस्य नित्यमपेयम् । १. 'भ्रष्टे'ति ख. पु. भरिजेति क. पु. २ भर्जिताना इति. ख पु ३. तै. ब्रा ३ ८ १४. ४ तै. स. ६ ५ ११. ५. म. स्मृ. ११ ९४ ६ 'तथैवान्या' इति ग पु. आप० ध० १३
तथा च गौतमः- (१)'मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो'रिति ॥२१॥ तथैलकं पयः ॥ २२ ॥ अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥ उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥ उष्ट्रीमृग्यौ प्रसिद्धे । या गर्भिणी दुग्धे सा सन्धिनीति शाखान्तरे प्रसि- द्धा । एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा यमसूः । उष्ट्रादीनां क्षीराण्येपेयानि । इतिकरणमेवं प्रकाराणामन्येषामे- कशफादीनां क्षीरमपेयमिति । तथा च मनुः- (२)'आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥ धेनोश्चानिर्दशायाः ॥ २४ ॥ धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । (३)'अजा गावो महि- ष्यश्चे'ति मानवे दर्शनात् ॥ २४ ॥ तथा कीलालोषधीनां च ॥ २५ ॥ कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमन्नाद्यम्॥२५॥ (४)करञ्जपलण्डुपरारीकाः ॥ २६ ॥ (५)करञ्जं रक्तलशुनम् । पलण्डु श्वेतम् । परारीका कृष्णम् । (६) मण्डु- १ गौ. ध. २. २० मद्य नित्य ब्राह्मण', इत्येव सूत्रम् ॥ २ म. स्मृ. ५. ९, ८. ३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षीरं (५. ८) इति श्लोकव्याख्यानावसरे कुल्लूकभट्टेन "गोरिति पेयक्षीरोपलक्षणार्थम् । तेनाजामहिष्यो- रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यश्चे'त्यस्याऽमानवत्वमेवाऽनु- मीयते । वस्तुतस्तु पाराशरीयं वचनामिदम् । ( परा. स्मृ. ३. ७.) तत्रैव दर्शनात् ॥ ४. कलञ्जपलाण्डुपरारीकाः इति क पु. परारिका इति. घ पु. ५. अनेनैव प्रमाणेन 'न कलञ्ज भक्षयेत' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य- स्माभिर्व्याख्यातं नञर्थनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारविवेचिन्याम् । तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव द्रष्टव्यम् ॥ ६. डुण्डुभाष्यया इति ख. पु. सुहण्डुभाष्यया इति. क. पु.
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । ९९ भाख्यया म्लेच्छानां प्रसिद्धम् । एते चाऽभक्ष्याः ॥ २६ ॥ अभक्ष्याणां प्रतिपदपाठो न शक्यते इति समासेनाह— यच्चाऽन्यत् परिचक्षते ॥ २७ ॥ यच्चान्यदेवंयुक्तं शिष्टाः परिचक्षते वर्जयन्ति तदप्यभक्ष्यम् । तत्राह मनुः— (१)लशुनं गृञ्जनं चैव पलाण्डु कवकानि च ॥ अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥' इति ॥ २७ ॥ क्याक्वभोज्यमिति हि ब्राह्मणम् ॥२८॥ क्याकु छत्राकं तदभोज्यमभक्ष्यम् । ब्राह्मणग्रहणमुक्तार्थम् ॥ २८ ॥ एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ॥ २९ ॥ एकखुरा अश्वादयः । गवयो गोसदृशः पशुः । शरभोऽष्टपाद आरण्यो - मृगः । अन्ये प्रसिद्धाः । एतेषां मांसमभक्ष्यम् ॥ २९ ॥ धेन्वनडुहोर्भक्ष्यम् ॥ ३० ॥ धेन्वनडुहोर्मांसं भक्ष्यम् । गोप्रतिषेधस्य प्रतिप्रसवः ॥ ३० ॥ मेध्यमानडुहमिति वाजसनेयकम् ॥ ३१ ॥ (२)अनडुहो मांसं न केवल भक्ष्यम्, किं तर्हि ? मेध्यमपीति वाजस- नेयिनः समामनन्ति ॥ ३१ ॥ कुक्कुटो विकिराणाम् ॥ ३२ ॥ व्यवहितमप्यभोज्यमिति सम्बध्यते । पादाभ्यां विकीर्य कीटधा- न्यादि ये भक्षयन्ति ते मयूरादयो विकिरास्तेषां मध्ये कुक्कुटो न भक्ष्यः । स्मृत्यन्तरवशात् ग्राम्यो, नाऽऽरण्यः ॥ ३२ ॥ प्लवः प्रतुदाम् ॥ ३३ ॥ तुण्डेन प्रतुद्य ये भक्षयन्ति ते दार्व्वाघाटादयः प्रतुदाः । तेषां मध्ये प्लव एवाऽभक्ष्यः । प्लवः (३)शकटबलाख्यो बकविशेषः ॥ ३३ ॥ (४)क्रव्यादः ॥ ३४ ॥ १. म. स्मृ. ५ ५. २. आनडुहं मास० इति ख. ग. पु. ३ शकटविलाह्य इति ख पु. शकावलाख्यः इति. ग, पु शकबलाह्य इति. घ, ङ. पुस्तकयो. । ४ एतदादि सूत्रत्रयमेकीकृतं क पु.
२. प्रथम प्रश्न (पटल ६-११): शुद्धि-अशुद्धि व प्रायश्चित्त
१०० आपस्तम्बधर्मसूत्रे [(प्र.५.)क.१७ क्रव्यं मांसं तदेव केवलं येऽदन्ति ते क्रव्यादः गृध्रादयः। ते ऽप्यभक्ष्याः हंसभासचक्रवाकसुपर्णाश्च ॥ ३५ ॥ हंसः प्रसिद्धः । भासः श्येनाकृतिः पीनतुण्डः । चक्रवाकः मिथुनचरः । सुपर्णः श्येनः । एते चाऽभक्ष्याः ॥ ३५ ॥ क्रुञ्चक्रौञ्च वार्ध्रीणसलक्ष्मणवर्जम् ॥ ३६ ॥ क्रुञ्चा वृन्दचाराः । क्रौञ्चा मिथुनचराः । ते चाऽभक्ष्याः । सूत्रे क्रौ- ञ्चेति विभक्तिलोपश्चान्दसः । किमविशेषेण क्रुञ्चक्रौञ्चा अभक्ष्याः । ने- त्याह—वार्ध्रीणसलक्ष्मणवर्जम् । श्वेतो लोहितो वा मूर्धा येषां ते लक्ष्मणाः त एव विशेष्यन्ते—वार्ध्रीणसा इति । वार्ध्री चर्म तदाकारा नासिका येषां ते वार्ध्रीणसाः । एवंभूतान् लक्ष्मणाम् वर्जयित्वा क्रुञ्चक्रौञ्चा न भक्ष्या इति । अन्ये त्वाहुः—'क्रव्याद्' इति प्राप्तस्य प्रतिषेधस्य क्रुञ्चादिषु चतुर्ष्व- प्रतिषेध इति । तत्र लक्ष्मणा सारसी लक्ष्मणवर्जमिति(१) 'ङ्यापोस्सं- ज्ञाच्छन्दसो'रिति ह्रस्वः। एवं क्रुञ्चादिशब्दस्याऽप्यजादित्वात्तन्तस्य ॥३६॥ पञ्चनखानां(२) गोधाकच्छपश्वाविच्छर्यकखङ्ग- शशपूतिखषवर्जम् ॥ ३७ ॥ पञ्चनखानरवानरमार्जारादयः । तेषां मध्ये गोधादीन् सप्त वर्जयित्वा अ- न्ये अभक्ष्याः । गोधा कृकलासाकृतिर्महाकाया । कच्छपः कूर्मः । श्वाविद् व राहविशेषः, यस्य नाराचाकाराणि लोमानि। शर्यकः शल्यकः, यस्य च- र्मणा तनुत्राणं क्रियते । श्वाविच्छर्यक इति युक्तः पाठः । एके तु छकारं पठन्ति । छकारात्पूर्वमिकारम् । खङ्गो मृगविशेषः, यस्य शृङ्गं तैलभा- जनम् । शशः प्रसिद्धः । पूतिखष । शशाकृतिः हिमवति प्रसिद्धः ॥३७॥ अभक्ष्यश्चेटो मत्स्यानाम् ॥ ३८ ॥ मत्स्यानां मध्ये चेटाख्यो मत्स्यो न भक्ष्यः ॥ ३८ ॥ सर्पशीर्षी मृदुरः क्रव्यादो ये चाऽन्ये विकृता यथा मनुष्यशिरसः ॥३९॥ सर्पस्येव शिरो यस्य सोऽपि मत्स्यो न भक्ष्यः । मृदुरो मकरः ये च क्रव्यमेवाऽदन्ति शिशुमारादयः तेऽप्यभक्ष्याः । ये च उक्तेभ्योऽन्ये १. पा. सू. ६ ३.६३ २. पञ्चपञ्चनखा भक्ष्या., इत्यत्र द्वितीयसप्तमवर्जिताना ग्रहणम् ।
अभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१ मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः- (१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ (२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति । (३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति ग पु. ।
अथ षष्ठः पटलः ॥ एवं तावन्निमित्तदुष्टं जातिदुष्टं कालदुष्टं चाऽभोज्यमुक्तम् । तत्र नि- मित्तदुष्टं 'यस्य कुले म्रियेते(पृ. ९२.)'त्यादि । जातिदुष्टं कलञ्जादि । कालदुष्टं पर्युषितादि । इदानीं प्रतिग्रहाशुचीनि कानिचिदनुज्ञाय कानिचित् प्रतिषेधति— मध्वामं मार्गं मांसं भूमिर्मूलफलानि रक्षा गव्यू- तिर्निवेशनं युग्यघासश्चोग्रतः प्रतिगृह्याणि ॥ १ ॥ मधु पक्कमपक्वं वा । आम तण्डुलादि । मृगस्य विकारो मार्गं मांसम् । भूमिः शालेयादिक्षेत्रम् । विश्रमस्थानमित्यन्ये । मूलफलानि(१) मूलकाम्रा- दीनि । रक्षा अभयदानम् । गव्यूतिर्गोमार्गः । निवेशनं गृहम् । युगं वहती- ति युग्यो बलीवर्दः । तस्य घासो भक्ष्यं पलालादि । एतान्युग्रतोऽपि प्रति- गृह्याणि प्रतिग्राह्याणि अदुर्भीक्षेऽपि । उग्रः पापकर्मा द्विजातिः, वैश्याद्वा शूद्रायां जातः । उग्रग्रहणं तादृशानामुपलक्षणम् ॥ १ ॥ एतान्यपि नाऽनन्तेवास्याहतानीति हारीतः ॥ २ ॥ एतानि मध्वादीन्यपि अन्तेवास्याहतान्येव प्रतिग्राह्याणि, न स्वयमुग्रत इति हारीत आचार्यो मन्यते ॥ २ ॥ आमं वा गृह्णीरन् ॥ ३ ॥ पूर्वोक्तेष्वामं स्वयमेव वा गृह्णीरन् द्विजा इति(२) हारीतस्यैव पक्षः ॥ ३ । कृतान्नस्य वा विरसस्य ॥ ४ ॥ आमस्याऽलाभे कृतान्नस्याऽपि विरसस्य लवणादिरसासंयुक्तस्य । षष्ठी निर्देशात् स्तोकम् । स्वयमन्तेवास्याहृतं वा गृह्णीरन् ॥ ४ ॥ न सुभिक्षाः स्युः ॥ ५ ॥ अनन्तरोक्तविधानद्वये यद्गृहीतमन्नं तेन सुभिक्षाः सुहिता न भवेयु- रेव । यावता प्राणयात्रा भवति तावदेव गृह्णीरन् , न यावता सौहित्यं तावदिति ॥ ५ ॥ स्वयमप्यवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत ॥ ६ ॥ यदि तु दुर्भिक्षतया आत्मनोऽपि वृत्तिर्न लभ्यते प्रागेव पोष्यवर्गस्य, १. मूलकन्दादीनि इति क. पु. २ हारीताचार्यस्य, इति छ. पु.
अनापद्वृत्तिः ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०३ तदा स्वयमप्यवृत्तौ यत्रैव लभ्यते तत्रैव कृतान्नमपि भुञ्जीत । तत्र गुण- विधिः— सुवर्णं दत्वा सकृदेवोपक्लृप्तमुपरिष्टात्सुवर्णेन स्पृष्ट्वा । एतेन पशुं वा दत्वेत्यपि व्याख्यातम् । 'पशुराग्नेः, (१)अग्निः पशुरासी'दिति मन्त्रलिङ्गात्(२) गोसूक्तेनाऽग्नेरुपस्थानदर्शनाच्च ॥ ६ ॥ नाऽत्यन्तमन्ववस्येत् ॥ ७ ॥ न पुनरत्यन्तमन्ववसीदेत् ॥ ७ ॥ वृत्तिं प्राप्य विरमेत् ॥ ८ ॥ यदा विहिता वृत्तिर्लभ्यते तदा निषिद्धाया विरमेत् । न पुन'स्स- कृत्प्रवृत्तायाः किमवकुण्ठनेने”ति न्यायेन तत्रैव रमेत । अत्र छान्दोग्यो पनिषत्—‘(३)मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रा- यण इभ्यग्रामे प्रद्राणक उवास । स हेभ्यं कुलमाषान् खादन्तं बिभिक्षे' इत्यादि । मन्त्रवर्णश्च भवति(४) ‘अवर्त्या शुन अन्त्राणि पेचे' इति । अवर्त्या वृत्त्यभावेन । अपर आह-दुर्भिक्षे स्वयमप्यवृत्तौ आ तन्निवृ- त्तेर्यत्र कुत्रचिन्म्लेच्छेऽपि दातरि भुञ्जानो वसेत् यां च यावतीं च स्वर्ण- मात्रां य कश्चन पशु वा तस्मै दत्वा । न पुनरत्यन्तमन्ववस्येत् वृत्तिं प्राप्य विरमेदिति ॥ ८ ॥ एवमापदि वृत्तिमुक्त्वा सुभिक्षेऽनापदि वृत्तिमाह— त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समा- वृत्तेन न भोक्तव्यम् ॥ ९ ॥ समावृत्तो द्विजातिः क्षत्रियादीनां त्रयाणां वर्णाना गृहे न भुञ्जीत ॥ ९ ॥ प्रकृत्या ब्राह्मणस्य भोक्तव्यमकारणादभोज्यम् ॥ १० ॥ १ तै. स. ५. ७. २६. २. ऋ. स. ६. २८. १ ३. छा. उ १. १०. “मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु सस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुपजातपयोधरादिस्त्रीव्यञ्जनया जायया उषस्तिर्ह नामतः चक्रस्यापत्यं चाक्रायणः इभः हस्ती तमर्हतीतीभ्यः ईश्वरः हस्त्यारोहो वा । तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणकः अन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सिता गतिं गतः । अन्त्यावस्था प्राप्त इत्यर्थः । उवास उषितवान् कस्यचिद्गृहमाश्रित्य । सो- ऽन्नार्थमटन्निभ्यं कुल्माषान् कुत्सितान्माषान् खादन्त भक्षयन्त यदृच्छयोपलभ्य बिभिक्षे” इति शाङ्करभाष्यम्। ४. ऋ. सं ४. १८. १३.