आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 37, कुल 134 में से
संदर्भ में पढ़ें॥ ओ३म् ॥ अथार्यभटीयं ज्योतिषशास्त्रम् ॥ " यस्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणम् । मृगटङ्काभयेष्टाङ्कन्त्रिणेत्रन्तमुपास्महे ॥ लीलावती भास्करीयं लघु चान्यच्च मानसम् । व्याख्यातं शिष्यबोधार्थं येन प्राक्तेनं चाधुना ॥ तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया । परमादीश्वराख्येन नाम्नात्र भटदीपिका ॥" तत्रायमाचार्य आर्यभटो विघ्नोपशमनार्थं स्वेष्टदेवतानमस्कारं प्रतिपा- द्य वस्तुकथनञ्चार्यरूपया करोति ॥ प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलम्॥ इति ॥ कं ब्रह्माणं एकं कारणरूपेणैकं अनेकं कार्यरूपेणानेकं सत्यां देवतां देव एवदेवता। स्वयम्भूरैव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमार्थिकाः। परंब्रह्म जगतो मूलकारणं त्रिमूर्त्यतीतं सर्वव्याप्तं ब्रह्म स्वयम्भूरित्युक्तौ भ- वति । आर्यभट एवं ब्रह्माणं प्रणिपत्य गणितं कालक्रियां गोलम्-इत्येतानि त्रीणि वस्तूनि निगदति * परोक्षत्वेन निर्देशान्निगदतीति वचनम्। तत्र गणि- तन्नाम सङ्कलितमिश्रश्रेढीदर्शधीकुट्टाकारच्छायाक्षेत्राद्यनेकविधम् । इह तु काल- क्रियागोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रं सामान्यगणितमेव प्रायशः प्र- तिज्ञातम् । अन्यच्च किञ्चित्। कालस्य क्रिया कालक्रिया । कालपरिच्छेदोपाय- भूतं ग्रहगणितं कालक्रियेत्यर्थः । गोलनाम ब्रह्माण्डकटाहमध्यवर्त्याकाशम- ध्यस्थसंहनक्षत्रकक्ष्यात्मकं स्वमध्यस्थघनवृत्तभूमिकमपक्रमाद्यशेषविशेषोपेतं प्रवाहाख्यवायुप्रेरितं कालचक्रज्योतिश्चक्रभपञ्जरादिशब्दवाच्यं गोलः । स च