आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 54, कुल 134 में से
संदर्भ में पढ़ें१८ गीतिकापादः ॥ कुसुमपुरेऽभ्यर्चितमित्यनेन ॥ कालक्रियागोलयोर्गणितगम्यत्वात्प्रथमं गणि- तपादं प्रतिपादयिष्यन्नादितो दशानां स्थानानां संज्ञास्संख्यालक्षणञ्चाह । भा०:- पृथिवी, चन्द्रमा, बुध, शुक्र, सूर्य, मङ्गल, और बृहस्पति, आदि धिष्ठित परब्रह्म को नमस्कार कर आर्यभट इस कुसुमपुर (पटना, बिहार) के लोगों द्वारा समादृत आर्यभटीय नामक ग्रन्थ को कहते हैं ॥ १॥ एकं दश च शतञ्च सहस्रमयुतनियुते तथा प्रयुतम् । कोट्यर्बुदञ्च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ॥२॥ * इति । स्पष्टार्थः । अनुक्ता संख्या शास्त्रान्तरादवगन्तव्येति भावः ॥ समचतु- रश्रफलयोर्वर्गसंज्ञां वर्गस्वरूपञ्चार्यार्धेनाह । दूसरी गीतिका का अर्थ नीचे लिखे प्रकार जानना ॥ एक १ दश १० शत १०० सहस्र १००० अयुत १०००० लक्ष १००००० प्रयुत १०००००० कोटि १००००००० अर्बुद १०००००००० अब्ज १००००००००० खर्व १०००००००००० निखर्व १००००००००००० महापद्म् ०००००००००००० शङ्कु १००००००००००००० जलधि १०००००००००००००० अन्त्य १००००००००००००००० मध्य १०००००००००००००००० परार्द्ध १००००००००००००००००० ( * ) इत्यार्यापूर्वार्धे वृत्तभङ्ग उपलभ्यते । एकं दशायुतं शतं सहस्रमिति पाठः शुद्धप्रायो भवेत् ।