भारतकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 56, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 56

२० गीतिकापादः ॥ स्वस्वोपरिष्टाच्च तथापरेऽङ्कास्त्यक्त्वान्त्यमुत्सार्य पुनश्च राशिम् ॥ ” इति वर्गकर्म । "समात्रिघातश्च घनः प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः । आदित्रिनिघ्नस्त आदिवर्गस्त्यन्त्याहतोऽथादिघनश्च सर्वे ॥ स्थानान्तरत्वेन युताः पनः स्यात् प्रकल्प्य तत्खण्डयुगं ततोऽन्यत् । एवं मुहुर्वर्गघनप्रसिद्ध्या आद्यङ्कतो वा विधिरेष कार्यः ॥ इति घनकर्म । अन्त्यानित्कालस्थापितघनस्य मूलादीन्यन्त्यस्थानानि । आदितस्तस्यादिभूतमेकमेव स्थानम् । खण्डयुगमधिकखण्डमविन्यस्तं तथा वि- न्यस्तमन्त्यखण्डेऽङ्गु । अन्यत् अन्यत्र प्रकल्प्येत्यर्थः ॥ भिन्नवर्गभिन्नघनयोस्तु । “अंशकृती भक्तायां छेदजवर्गेण भिन्नवर्गफलम् । अंशस्य घनं विभजेच्छेदरय घनेन घनफलं भिन्नम् ॥„ इत्याभ्यां वर्गफलघनफले कल्प्ये ॥ वर्गमूलमाह । समान तीन संख्याओं के परस्पर गुणन को “घन” कहते हैं एवं द्वाद- शास्त्र क्षेत्र ( १२ कोण का ) का नाम भी “घनक्षेत्र” है ॥ ३ ॥ भागं हरेदवर्गान्नित्यं द्विगुणेन वर्गमूलेन । वर्गाद्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् ॥४॥ ओजस्थानानि वर्गसंज्ञितानि।युग्मस्थानान्यवर्गसंज्ञितानि।अन्त्याद्वर्गस्थानाद्यथास ब्धं वर्गं विशोधयेत्। शुद्धस्य तस्य वर्गस्य मूलमेकत्र संस्थापयेत्।पुनस्तन्मूलं पृ- थक् संस्थाप्य पृथक्स्थेन तेन द्विगुणेन मूलाख्येन फलेन शुद्धवर्गस्थानस्यादिभू- तमवर्गस्थानं विभव्य लब्धफलस्य वर्गञ्च विहृतस्थानस्यादिभूताद्वर्गस्थानाद्वि- शोध्य पुनस्तत्फलं मूलाख्यं पूर्वस्थापितमूलफलस्यादित्वेन पङ्क्त्यां न्यसेत् । पुनस्तया मूलपङ्क्त्या पृथक्स्थया द्विगुणितया शुद्धवर्गस्थानस्यादिभूतमवर्ग स्थानं विभव्य तत्र लब्धस्य फलस्य वर्गञ्च विहृतस्थानफलमवर्गस्थानस्यादिभूत द्वर्गस्थानाद्विशोध्य तत्फलमपि मूलपङ्क्तौ स्थापयेत्।पुनरप्येवंकुर्याद्यावत्स्था- नावसानम्। तत्र दृष्टा मूलपङ्क्तिर्मूलमेव । सदा विभव्यम् । यदि तत्र फलं न भवेत् तदा शून्यं मूलपङ्क्तौ संस्थाप्य पुनरम्यदवर्गस्थानं विभजेदित्यर्थः । य- दा यत्स्थानं ह्रियते तदा तस्यान्त्यस्थानानि तस्याद्ययभूतानीतिकल्प्यम्।