आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 64, कुल 134 में से
संदर्भ में पढ़ें२८ गीतिकापादः ॥ दोःकोटिभ्यां व्यासदलखण्डाभ्याञ्च चतुर्भुजम् ॥ त्र्यश्रे समस्तजीवार्धं साध्यजीवेति कल्प्यते । चतुर्भुजे तु कोटिर्वा भुजा वा साध्यजीवका ॥ त्रिज्यादोःकृतिभेदस्य मूलं कोटिर्भुजा तथा । एतत्सर्वं विदित्वात्र जीवायुक्तिर्विचिन्त्यताम् ॥ राशित्रयमिते दोष्णि दोर्ज्या त्रिज्यासमा भवेत् । त्रिज्यैवोत्क्रमजीवापि तस्याः कोट्या अभावतः ॥ द्यतस्त्रिगुणयोर्वर्गयोगमूलं समस्तज्या । जीवा त्रिराशिकापस्य त्र्यश्रं तत्र प्रजायते ॥ समस्तार्थोत्क्रमज्याभिस्समस्तज्यार्धमत्र तु । सार्धर्क्षभोर्धर्ज्या पिण्डज्या द्वादशी च सा ॥ तया तदुत्क्रमेणापि समस्तज्या पुनर्भवोत् । ताभिस्त्र्यश्रं समस्तज्यादलं षष्ठार्धजीवका ॥ तया कोटिश्चसाध्या स्याद्दोःकोट्योर्न्यस्तयोः पुनः । ताभ्यां दिक्सूत्रखण्डाभ्यामपि स्याच्चतुरश्रकम् ॥ अष्टादशी तत्र कोटिरित्थं सर्वत्र चिन्त्यताम् । चतुरश्रं त्रिकोणं वा जीवा वापि तदाश्रिता ॥ अष्टादशीषष्ठिकाभ्यां समस्तज्यावशात्पुनः । नवमी च तृतीया च बाहुकोटिवशात्पुनः ॥ ताभ्यां पञ्चदशी चैकविंशी सप्तेति साधिताः ॥ व्यासार्थार्धं ह्यष्टमी ज्या तत्कोटिष्षोडशी भवेत् ॥ अष्टम्यास्तु समस्तज्याविधिना च चतुर्थिका । ततः कोटिवशाद्विंशी समस्तज्यावशात्ततः ॥ दशमी च ततो बाहुवशात्स्यात्तु चतुर्दशी । चतुर्दश्यास्समस्तज्यावशाद्भवति सप्तमी ॥ ततः कोटिवशात्सप्तदशी भूयोऽथ पञ्चमी । दश्म्यास्तु समस्तज्यावशात्सिध्येत्पुनस्तथा ॥ एकोनविंशी पञ्चम्या बाहुरूपेण सिध्यति । द्वितीया च चतुर्थ्यास्स्यात्समस्तज्यावशात्ततः ॥