आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 65, कुल 134 में से
संदर्भ में पढ़ेंआर्यभटीये- २९ द्वाविंशे कोटिरूपेण समस्तज्यावशात्ततः । एकादशी ततो बाहुरूपेण स्यात्त्रयोदशी ॥ द्वितीयायाः समस्तज्यावशात्प्रथमजीवका । त्रयोविंशी ततः कोटिरूपेणैवञ्च षोडश ॥ त्रिन्यैव हि चतुर्विंशी पूर्वपूर्वोनिता इमाः । खण्डज्या गीतिकोक्तास्स्युरित्युक्तं ह्यनयार्यया ॥ इति ॥ प्रथमखण्डज्यातो गीतिकोक्तखण्डज्यानामानयनोपायमाह । भा०:-युक्ति से मानी हुई रेखा द्वारा भाग देवें तो त्रिभुज और चतुर्भुज वशतः कुछ अर्द्धज्या सिद्ध होंगी । परस्पर समान अर्द्धचापों की अर्द्धज्या। और व्या- सार्द्ध के सिद्ध होने पर शेष इष्टज्या सिद्ध होती जावेंगी ॥ ११ ॥ प्रथमाच्चापज्यार्धाद्यैरूनं खण्डितं द्वितीयार्धम् । तत्प्रथमज्यार्धांशैस्तैस्तैरूनानि शेषाणि ॥ १२ ॥ चापज्यार्धम् । चापस्य विहितार्धज्या हि मख्यादयः । खण्डितं द्वितीया- र्धम् । द्वितीयमर्धज्याखण्डम् । प्रथमखण्डज्यास्थापनानन्तरं यदभीष्टजीवाखण्डं स्थाप्यते तद्द्वितीयमित्युच्यते । साध्यस्य पूर्वमित्यर्थः । प्रथमाच्चापज्यार्धाद्यै- र्यैस्संख्याविशेषैरूनं तत्सदभीष्टजीवाखण्डं द्वितीयाख्यम् । तैस्तैरूनानि । बहुसा- ध्यापेक्षया बहुषु स्थापितानि प्रथमखण्डज्यार्धानि कृत्वा पुनस्तत्प्रथमज्यार्धां- शैः । तदिति । तच्छब्देनप्रथमादिरभीष्टज्यापूर्वान्तः खण्डज्यास समूह उच्यते । त- स्मादतीतखण्डज्यासम्हात्प्रथमज्यार्धेन लब्धैरंशैः फलारूपैश्चोनानि कुर्यात् । एवंभूतानि शेषाणि भवन्ति । तत्तदुत्तरजीवाखण्डानीत्यर्थः । एतदुक्तम् । प्रथमं प्रथमज्याखण्डं संस्थाप्य तस्मात्साध्यस्य पूर्वजीवाखण्डं द्वितीयाख्यं विशोध्य शेषमेकत्र संस्थाप्य पुनस्साध्यखण्डज्यातः पूर्वखण्डज्याससमूहं प्रथमज्यया विभज्य लब्धं फलं पूर्वस्थापितशेषयुतं प्रथमज्यातश्शोधयेत् । तत्र शिष्टमुत्तरजीवाखण्डं भवति । उदाहरणम् । द्वितीयखण्डज्यातः पूर्वखण्डज्या मखि इति । अस्य न्यू- नताभावात्प्रथमफलं शून्यम् । पुनस्साध्यातपूर्वखण्डज्याससमूहो मखि एव । त- स्मात्प्रथमज्यार्धेन लब्धमेकम् । तत् प्रथमज्याखण्डाद्विशोध्य शिष्टं द्वितीयज्या खण्डं भखि इति । पुनस्तृतीयात्साध्यज्याखण्डात्पूर्वज्याखण्डं भखि प्रथमादेके- निनमेतत्पुनस्साध्यातपूर्वखण्डज्याससमूहो मखिभखिभ्यां तुल्यस्तस्मात्प्रथमज्यार्धेन लब्धं द्वयं पूर्वशिष्टमेकञ्च मुखेविशोध्य शिष्टं तृतीयज्याखण्डं फखि इति । एवम ग्राद्य साध्यः ॥ तैस्तैरितिवचनं बहुसाध्यजीवापेक्षया फलानां बहुत्वान् ।