आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 66, कुल 134 में से
संदर्भ में पढ़ेंऊनानीतिवचनं बहुसाध्यापेक्षया प्रथमजीवाखण्डस्य बहुधा स्थापितत्वात् । शेषाणीतिवचनं साध्यानामुत्तरजीवाखण्डानां बहुत्वत् ॥ वृत्तादिपरिकल्प- नाप्रकारमाह । भा०ः-प्रथम चापज्यार्द्ध (संख्या) जो ऊन है। वह द्वितीयज्यार्द्ध होगा इसी प्र- कार द्वितीय आदि जानना। जैसे :-२२५ प्रथमज्यार्द्ध, २२४ द्वितीय, तृतीय २२२ इत्यादि ( प्रथम पा० गी० सू० १० ) इसीप्रकार और भी जानो ॥१२॥ वृत्तं भ्रमेण साध्यं त्रिभुजञ्च चतुर्भुजञ्च कर्णाभ्याम् ॥ साध्या जलेन समभूरधऊर्ध्वं लम्बकेनैव ॥ १३ ॥ भ्रमेण कर्कटायन्त्रेण वृत्तं साध्यम् । एतदुक्तं भवति । ऋज्वीं काञ्चि- द्यष्टिं संपाद्य तस्या ऊर्ध्वभागे कण्ठप्रदेशे पाशेन दृढं बध्वा अधोगताग्रादपि कण्ठान्तं भित्त्वा शलाकाद्वयं कृत्व । तयोरग्रं तीक्ष्णाग्रं कुर्यात् । एवमधोमुखं क- र्कटयन्त्रं भवति । पुनश्शलाफयोरन्तराले शलाकां निधाय कर्कटकं विवृतास्यं कुर्यात् । अन्तरालस्थशलाकाया ऊर्ध्वाधंश्नलनाकर्कटास्यमिष्टवृत्तव्यासार्धसमं कृत्वा एकशलाकाग्रं साध्यवृत्तमध्यप्रदेशे संस्थाप्यापरमग्रं वृत्तनैमिप्रदेशे सं- स्थाप्य कर्कटं भ्रमयेत् । तदभीष्टवृत्तं भवति । इति ॥ त्रिभुजक्षेत्रञ्च चतुर्भुजक्षे त्रञ्च कर्णाभ्यां साध्यम्। एतद्द्वयमपि स्वेनस्वेन कर्णेन साध्यमित्यर्थः । त्रिभु म्प्येको भुजः कर्ण इति कल्प्यते त्रिभुजद्वयोत्थचतुर्भुजे तस्य कर्णात्मकत्वात् तत्र प्रथमं कर्णतुल्यां शलाकां समभूमौ निधायान्यभुजद्वयतुल्ययोश्शलाकयोरेकां शलाकां कर्णस्यैकाग्रे निधायापरां शलाकां कर्णस्येतराग्ने निधाय भुजा- ख्यशलाकाग्रयोस्सन्धिं कुर्यात् । तदभीष्टत्रिभुजं भवति । चतुर्भुजे ऽपि कर्ण- योरेकं प्रथमं निधाय तस्यैकपार्श्वे भुजद्वयं त्रिभुजवन्निधायापरपार्श्वे चे- तरभुजद्वयं त्रिभुजवन्निदध्यात्। इतरकर्णश्च तस्मिन् कर्णस्थाने निदध्यात्। तदा कर्णद्वयाङ्कितं चतुर्भुजं भवति । अत्रैककर्णपरिग्रहेणेतरकर्णश्च निय- मितो भवति ॥ साध्या जलेन समभूः । भूमेस्समत्वं जलेन साध्यम् । भूमे- स्समविषमतापरिज्ञानं जलेन भवतीत्यर्थः । एतदुक्तं भवति । चतुस्सूत्रेण भूमिं समतलां कृत्वा तत्रैकं वृत्तमलिख्य तद्वहिर्द्व्यङ्गुलान्तरितं त्र्यङ्गुल न्तरितं वा वृत्तान्तरञ्च विलिख्य परिध्योरन्तरालप्रदेशँ समन्तात् खात्व कुल्यां संपाद्य तां कुल्यामद्भिः पूरयेत् । तत्र परितो जलं भूसमं चेत् भूमिरसम भवति । यत्र जलस्य नीचत्वंतत्र भूमेरुन्नतिस्स्यात् । यत्र जलस्योन्नतिस्तत्र भूमे नींचत्वं स्यादिति ॥ अधऊर्ध्वं लम्बकेनैव । गुरुद्रव्याबद्धाग्रमवलम्बितं सूत्रमव