आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 71, कुल 134 में से
संदर्भ में पढ़ेंइति ॥ अन्त्योपान्त्याद्यभीष्टपदधनानयने तु पूर्वमुत्तरगुणं समुखमित योजना। इष्टपदात्पूर्वमतीतानि पदानि पूर्वशब्देनोच्यन्ते। पूर्वपदसंख्या चयगुणिता मुख- युता इष्टधनं भवति। अत्रैवं सूत्रम् । पूर्वपदं चयगुणितं मुखसहितमिष्टधनं स्या- त्०। इति । अवान्तरगतेष्टपदधनानयने तु 'मध्यमित्येतदुपनीय' क्रमेण सूत्रमि- ष्टगुणितमिष्टधनमित्येवमन्तं योज्यम् । अवान्तरगतेष्टपदसंख्या व्येका दलिता इष्टपदेभ्यः पूर्वमतीतपदयुता चयगुणिता मुखसहिता अवान्तरगतेष्टपदसंख्यागु- ण्रिता अवान्तरेष्टपदेषु सर्वधनं भवति। अत्रैवं सूत्रम् । इष्टं व्येकं दलितं सपूर्वमुत्तर- गुणं समुखमिष्टगुणमवान्तरेष्टपदसंभूतं फलं भवति। इति। अवेष्टशब्देनावान्तरे- ष्टपद संख्योच्यते । उदाहरणम् । आदि पञ्च चयस्सप्त गच्छस्सप्तदशोच्यताम् । मध्योपान्ताष्टमादित्रि वद सर्वधनं पृथक् ॥ आदिधनम् ५। चयः ७। गच्छः १७। अत्र मध्यधनानयने इष्टम् १७। अस्मा- दिष्टं व्यकमित्यादिना सिद्धं मध्यधनम् ६१। एतदिष्टपदेन सप्तदशभिर्निहतम् १०३७ एतत्सर्वधनम्। उपान्त्यपदधनानयने इष्टम् १६। अस्मात्पूर्वपदम् १५। चयगुणितं मुखसहितञ्च ११०। एतदुपान्त्ये षोडशपदे धनम्। अथाष्टमादिपदत्रयधनानयने इष्टम् ३। एतद्व्येकं दलितम् १। अस्मात्पूर्वपदैस्सप्तभिर्युतम् ८। उत्तरगुणं समुखञ्च ६१ । इष्टेनावान्तरपदैस्त्रिभिर्निहतम् १८३। एतदष्टमादिपदत्रये धनं भवति ॥ स- र्वधनानयन उपायान्तरमार्यार्द्धेनाह । अथवाद्वयन्तं पदार्धहतम् । इति । आ- दिधनान्त्यधनैक्यं पदार्धहतं सर्वधनं भवति ॥ समुखमध्यक्षमित्यत्र समुखं मध्यमिति द्रष्टव्यम् ॥ यत्र मध्यपदाभावस्तत्र मध्यात्पूर्वापरयोरुपान्त्यधनयोर्या- गार्धं मध्यधनं भवति ॥ गच्छानयनमाह । भा०;-अब “श्रेढीगणित” कहते हैं। अन्त्यधन लाने की रीति यह है कि - पद (गच्छ) में से एक घटावे और शेष अंक को " चय " (बढ़ती) धन से गु- णा करे और गुणन फल में “आदिधन” को जोड़े तो “अन्त्यधन” होगा एवं इसी “अन्त्य धन” में आदि (मुख) धन को जोड़ कर योगफल को दलित (आधा) करने से “मध्यधन” होगा। और “मध्यधन” को पद से गुणा करने पर “सर्वधन” होगा ॥ उदाहरण-जैसे आदिधन ५। चय ७। गच्छ १७। है, तो उक्त नियमानुसार १७ में से १ घटाया=१६x७=११२+५=११७ यह "अन्त्यधन" हुआ। पुनः ११७+५ =१२२ को दलित किया तो ६१ हुआ यह "मध्यधन" हुआ, और। ६१x१७=१०३७ यह "सर्वधन" हुआ ॥ १९ ॥