आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 81, कुल 134 में से
संदर्भ में पढ़ेंआर्य्यभटीये- ४५ “योग” भावी एवं वक्री शीघ्र गामीग्रह की अपेक्षा वक्री मन्दगामी ग्रह अधिक हो तो “योग” बीत गया जानना । और दोनों ग्रहों में से एक वक्री एवं दूसरा पूर्वगामी ग्रह हो तो वक्रीग्रह से पूर्वगामी ग्रह अधिक हो तो योग गत और पूर्वगामी ग्रह से मन्द गामी ग्रह अधिक हो तो “योग” भावी जानना । दो दृष्ट कालिकग्रहों की अन्तर कला को अपनी २ गति कला द्वारा गुणा करे गुणन फल में दो सरलगामी या वक्रगामी ग्रह हों, उनकी स्फुटगति के अन्तर कला का भाग देवे, भागफल से “योग” का (उपरोक्तप्रकार) ज्ञानहोगा॥३१॥ अधिकाग्रभागहारं छिन्द्यादूनाग्रभागहारेण । शेषंपरस्परभक्तं मतिगुणमग्रान्तरे क्षिप्तम् ॥ ३२ ॥ अधउपरिगुणितमन्त्ययुगूनाग्रच्छेदभाजिते शेषम् । अधिकाग्रच्छेदगुणं द्विच्छेदायमधिकायुतम् ॥ ३३ ॥ इति । द्विविधः कुट्टाकारः । निरग्रस्साग्रश्चेति । केनचिद्गुणकारेण गुणिते भाज्ये भाजकेन भक्ते यश्शेषस्तेन शेषेण भाज्यभाजकाभ्याञ्च तच्छेषप्रदगुणकार- राशेरानयनाय यत्कर्म क्रियते स निरग्रकुट्टाकार इत्युच्यते । तत्रानीतस्स गुण- कारः पूर्वगुणकाराद्विशोध्येत तस्मिन्स्वहारप्रक्षेपात्पूर्वगुणकारस्सिध्यति । यत्रैके- नैव राशिना भाज्यद्वये गुणिते भाजकद्वयेन हृते शेषद्वयं भवति तत्र ताभ्यां तत्तद्भाज्यभाजकाभ्याञ्च तत्तच्छेदद्वयगुणकारद्वये निरग्रविधिनानीते सति यदि तद्गुणकारद्वयं भिन्नं भवति । तदा ताभ्यां तद्धारकाभ्योञ्च पूर्वगुणकारानयने यः कर्मशेषो भवति । स साग्रकुट्टाकार इत्युच्यते । शेषद्वयेनानीतौ यौ गुणकारौ तयोरधिकोऽधिकाय इत्युच्यते । ऊन ऊनोऽग्रः । •साग्रकुट्टाकारप्रदर्शनपरमेत- दार्थद्वयम् । निरग्रोऽप्यस्मादेव सिध्यति । अधिकाग्रभागहारं छिन्द्यादूना- ग्रभागहारेण । अधिकाग्रसाधनभूतं भागहारमूनाग्रसाधनभूतेन भागहारेण छि- न्द्यात् । हरेत् । शेषपरस्परभक्तम् । अनन्तरं शेषपरस्परहरणं कार्य्यम् । शेषशब्दो ऽत्र हृतशेषस्य तत्समीपस्थितस्योनाग्रहारकस्य च प्रदर्शकः । हृतशेषस्योनाग्रभा- गस्य च परस्परहरणं कार्यमित्यर्थः । यदा पुनरधिकाग्रभागहारस्याल्पत्वादूनाग्र- हारेण प्रथमहरणं न सम्भवति तदाधिकाग्रहारोनाग्रहारोनाग्रहारयोः परस्पर- हरणं कार्यम् । कुट्टाकारे हि भाज्यभाजकयोः परस्परहरणं विहितम् । तत्र भा- ज्येन भाजकस्यं प्रथमहरणञ्चाभिप्रेतम् । अत्राप्यधिकाग्रभागहारो भाज्यत्वेन . कल्पितः । ऊनाग्रहारो भाजकत्वेन कल्पितः । तत्र भाज्यस्याल्पत्वापादनाय