अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 13, कुल 102 में से
संदर्भ में पढ़ेंद्वितीयाध्याये चतुर्थः पादः १३ [तृतीयः पादः - शेषः] ५४ रुजार्थानां भाववचनानाम- ज्वरेः। ५५ आशिषि नाथः। ५६ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्। ५७ व्यवहृपणोः समर्थयोः। ५८ दिवस्तदर्थस्य। ५९ विभाषोपसर्गे। ६० द्वितीया ब्राह्मणे। ६१ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने। ६२ चतुर्थ्यर्थे बहुलं छन्दसि। ६३ यजेश्च करणे। ६४ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे। ६५ कर्तृकर्मणोः कृति। ६६ उभयप्राप्तौ कर्मणि। ६७ क्तस्य च वर्तमाने। ६८ अधिकरणवाचिनश्च। ६९ न लोकाव्ययनिष्ठाखलर्थ- तृनाम्। ७० अकेनोर्भविष्यदाधमर्ण्ययोः। ७१ कृत्यानां कर्तरि वा। ७२ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्। ७३ चतुर्थी चाशिष्यायुष्यमद्रभद्र- कुशलसुखार्थहितैः। --०-- चतुर्थः पादः १ द्विगुरेकवचनम्। २ द्वन्द्वश्च प्राणितूर्य- सेनाङ्गानाम्। ३ अनुवादे चरणानाम्। ४ अध्वर्युक्रतुरनपुंसकम्। ५ अध्ययनतोऽविप्रकृष्ट- ख्यानाम्। ६ जातिरप्राणिनाम्। ७ विशिष्टलिङ्गो नदी देशोऽग्रामः। ८ क्षुद्रजन्तवः। ९ येषां च विरोधः शाश्वतिकः। १० शूद्राणामनिरवसितानाम्। ११ गवाश्वप्रभृतीनि च। १२ विभाषा वृक्षमृगतृणधान्य- व्यञ्जनपशुशकुन्यश्ववडव- पूर्वापराधरोत्तराणाम्। १३ विप्रतिषिद्धं चानधिकरण- वाचि। १४ न दधिपयआदीनि। १५ अधिकरणैतावत्त्वे च। १६ विभाषा समीपे। १७ स नपुंसकम्। १८ अव्ययीभावश्च। १९ तत्पुरुषोऽनञ्कर्मधारयः। २० सञ्ज्ञायां कण्थोशीनरेषु।