अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 16, कुल 102 में से
संदर्भ में पढ़ें१६ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः)
[वाम स्तम्भः / Left Column]
१९ नमोवरिवश्चित्रङः क्यच्। २० पुच्छभाण्डचीवराण्णिङ्। २१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्र- हलकलकृततूस्तेभ्यो णिच्। २२ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्। २३ नित्यं कौटिल्ये गतौ। २४ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्। २५ सत्यापपाशरूपवीणातूलश्लोक- सेनालोमत्वचवर्मवर्णचूर्ण- चुरादिभ्यो णिच्। २६ हेतुमति च। २७ कण्ड्वादिभ्यो यक्। २८ गुपूधूपविच्छिपणिपनिभ्य आयः। २९ ऋतेरीयङ्। ३० कमेर्णिङ्। ३१ आयादय आर्धधातुके वा। ३२ सनाद्यन्ता धातवः। ३३ स्यतासी ल्लुटोः। ३४ सिब्बहुलं लेटि। ३५ कास्प्रत्ययादाममन्त्रे लिटि। ३६ इजादेश्च गुरुमतोऽनृच्छः। ३७ दयायासश्च। ३८ उषविदजागृभ्योऽन्यतरस्याम्। ३९ भीह्रीभृह्रुवां श्लुवच्च।
[दक्षिण स्तम्भः / Right Column]
४० कृञ्चानुप्रयुज्यते लिटि। ४१ विदाङ्कुर्वन्त्वित्यन्य- तरस्याम्। ४२ अभ्युत्साद्यांप्रजनयांचिकयां- रमयामकः पावयाङ्क्रियाद्- विदामक्रन्नितिच्छन्दसि। ४३ च्लि लुङि। ४४ च्लेः सिच्। ४५ शल इगुपधादनिटः क्सः। ४६ श्लिष आलिङ्गने। ४७ न दृशः। ४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्। ४९ विभाषा धेट्श्व्योः। ५० गुपेश्चन्दसि। ५१ नोनयति- ध्वनयत्येलयत्यर्दयतिभ्यः। ५२ अस्यतिवक्तिख्यातिभ्योऽङ्। ५३ लिपिसिचिह्वश्च। ५४ आत्मनेपदेष्वन्यतरस्याम्। ५५ पुषाद्युताद्य्लृदितः परस्मैपदेषु। ५६ सर्तिशास्त्यर्तिभ्यश्च। ५७ इरितो वा। ५८ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचु- ग्लुञ्चुश्विभ्यश्च। ५९ कॄमृदृरुहिभ्यश्छन्दसि। ६० चिण्ले पदः।