अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 17, कुल 102 में से
संदर्भ में पढ़ेंतृतीयोध्याये प्रथमः पादः १७ ६१ दीपजनबुधपूरितायि- प्यायिभ्योऽन्यतरस्याम्। ६२ अचः कर्मकर्तरि। ६३ दुहश्च। ६४ न रुधः। ६५ तपोऽनुतापे च। ६६ चिण्भावकर्मणोः। ६७ सार्वधातुके यक्। ६८ कर्तरि शप्। ६९ दिवादिभ्यः श्यन्। ७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमु- त्रसित्रुटिलषः। ७१ यसोऽनुपसर्गात्। ७२ संयसश्च। ७३ स्वादिभ्यः श्नुः। ७४ श्रुवः शृ च। ७५ अक्षोऽन्यतरस्याम्। ७६ तनूकरणे तक्षः। ७७ तुदादिभ्यः शः। ७८ रुधादिभ्यः श्नम्। ७९ तनादिकृञ्भ्य उः। ८० धिन्विकृण्व्योर च। ८१ क्र्यादिभ्यः श्ना। ८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भु- स्कुभ्यः श्नुश्च। ८३ हलः श्नः शानज्झौ। ८४ छन्दसि शायजपि। ८५ व्यत्ययो बहुलम्। ८६ लिङ्याशिष्यङ्। ८७ कर्मवत्कर्मणा तुल्यक्रियः। ८८ तपस्तपःकर्मकस्यैव। ८९ न दुहस्नुन्मां यक्चिणौ। ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च। ९१ धातोः। ९२ तत्रोपपदं सप्तमीस्थम्। ९३ कृदतिङ्। ९४ वासरूपोऽस्त्रियाम्। ९५ कृत्याः। ९६ तव्यत्तव्यानीयरः। ९७ अचो यत्। ९८ पोरदुपधात्। ९९ शकिंसहोश्च। १०० गदमदचरयमश्चानुपसर्गे। १०१ अवद्यपण्यवर्या गर्ह्य- पणितव्यानिरोधेषु। १०२ वह्यं करणम्। १०३ अर्यः स्वामिवैश्ययोः। १०४ उपसर्या काल्या प्रजने। १०५ अजर्यं सङ्गतम्। १०६ वदः सुपि क्यप् च। १०७ भुवो भावे। १०८ हनस्त च। १०९ एतिस्तुशास्व्वृहदृजुषः क्यप्।