अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 41, कुल 102 में से
संदर्भ में पढ़ेंचतुर्थाध्याये चतुर्थः पादः ४१ ४४ परिषदो ण्यः। ४५ सेनाया वा। ४६ सञ्ज्ञायां ललाटकुकुट्यौ पश्यति। ४७ तस्य धर्म्यम्। ४८ अण्महिष्यादिभ्यः। ४९ ऋतोऽञ्। ५० अवक्रयः। ५१ तदस्य पण्यम्। ५२ लवणाट् ठञ्। ५३ किशरादिभ्यः ष्ठन्। ५४ शलालुनोऽन्यतरस्याम्। ५५ शिल्पम्। ५६ मड्डुकझर्झरादण्यतरस्याम्। ५७ प्रहरणम्। ५८ परश्वधाट् ठञ्च। ५९ शक्तियष्ट्योरीकक्। ६० अस्तिनास्तिदिष्टं मतिः। ६१ शीलम्। ६२ छत्रादिभ्यो णः। ६३ कर्माध्ययने वृत्तम्। ६४ बह्वच्पूर्वपदाट् ठञ्। ६५ हितं भक्षाः। ६६ तदस्मै दीयते नियुक्तम्। ६७ श्राणामांसौदनाट् टिठन्। ६८ भक्तादण्यतरस्याम्। ६९ तत्र नियुक्तः। ७० अगारान्ताट् ठन्। ७१ अध्यायिन्यदेशकालात्। ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति। ७३ निकटे वसति। ७४ आवसथात्ष्ठल्। ७५ प्राग्घिताद् यत्। ७६ तद् वहति रथयुगप्रासङ्गम्। ७७ धुरो यड्ढकौ। ७८ खः सर्वधुरात्। ७९ एकधुराल्लुकच। ८० शकटादण्। ८१ हलसीराट् ठक्। ८२ सञ्ज्ञायां जन्याः। ८३ विध्यत्यधनुषा। ८४ धनगणं लब्धा। ८५ अन्नाण्णः। ८६ वशं गतः। ८७ पदमस्मिन्दृश्यम्। ८८ मूलमस्याबर्हि। ८९ सञ्ज्ञायां धेनुष्या। ९० गृहपतिना संयुक्ते ञ्यः। ९१ नौवयोधर्मविषमूलमूलसीता- तुलाभ्यस्तार्यतुल्यप्राप्यवध्या- नाम्यसमसमितसम्मितेषु। ९२ धर्मपथ्यर्थन्यायादनपेते। ९३ छन्दसो निर्मिते।