अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 60, कुल 102 में से
संदर्भ में पढ़ें६० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) द्वितीयः पादः १ बहुव्रीहौ प्रकृत्या पूर्वपदम्। २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युप- मानाव्ययद्वितीयाकृत्याः। ३ वर्णो वर्णेष्वनेते। ४ गाधलवणयोः प्रमाणे। ५ दायाद्यं दायादे। ६ प्रतिबन्धि चिरकृच्छ्रयोः। ७ पदेऽपदेशे। ८ निवाते वातत्राणे। ९ शारदेऽनार्तवे। १० अध्वर्युकषाययोर्जातौ। ११ सदृशप्रतिरूपयोः सादृश्ये। १२ द्विगो प्रमाणे। १३ गन्तव्यपण्यं वाणिजे। १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके। १५ सुखप्रियोर्हिते। १६ प्रीतौ च। १७ स्वं स्वामिनि। १८ पत्यावैश्वर्ये। १९ न भूवाक्चिद्दिधिषु। २० वा भुवनम्। २१ आशङ्काबाधनेदीयःसु सम्भावने। २२ पूर्वे भूतपूर्वे। २३ सविधसनीडमर्यादसवश- सदेशेषु सामीप्ये। २४ विस्पष्टादीनि गुणवचनेषु। २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये। २६ कुमारश्च। २७ आदिः प्रत्येनासि। २८ पूगेष्वन्यतरस्याम्। २९ इगन्तकालकपालभगाल- शरावेषु द्विगो। ३० बह्वन्यतरस्याम्। ३१ दिष्टिवितस्त्योश्च। ३२ सप्तमी सिद्धशुष्कपक्व- बन्धेष्वकालात्। ३३ परिप्रत्युपापा वर्ज्यमानाहो- रात्रावयवेषु। ३४ राजन्यबहुवचनद्वन्द्वेऽन्धक- वृष्णिषु। ३५ सङ्ख्या। ३६ आचार्योपसर्जनश्चान्तेवासी। ३७ कार्तकौजपादयश्च। ३८ महान्व्रीह्यपराह्णगृष्टीष्वास- जाबालभारभारतहैलि- हिलरौरवप्रवृद्धेषु। ३९ क्षुल्लकश्च वैश्वदेवे। ४० उष्ट्रः सादिवाम्योः। ४१ गौः सादसादिसारथिषु। ४२ कुरुगार्हपत रिक्तगुर्वसूत-