अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 78, कुल 102 में से
संदर्भ में पढ़ें७८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ९७ बहुलं छन्दसि। ९८ रुदश्च पञ्चभ्यः। ९९ अङ् गार्ग्यगालवयोः। १०० अदः सर्वेषाम्। १०१ अतो दीर्घो यञि। १०२ सुपि च। १०३ बहुवचने झल्येत्। १०४ ओसि च। १०५ आङि चापः। १०६ सम्बुद्धौ च। १०७ अम्बार्थनद्योर्ह्रस्वः। १०८ ह्रस्वस्य गुणः। १०९ जसि च। ११० ऋतो ङिसर्वनामस्थानयोः। १११ घेर्ङिति। ११२ आण्नद्याः। ११३ याडापः। ११४ सर्वनाम्नः स्याड् ह्रस्वश्च। ११५ विभाषा द्वितीया- तृतीयाभ्याम्। ११६ ङेराम्नद्याम्नीभ्यः। ११७ इदुद्भ्याम्। ११८ औदौच्च घेः। ११९ आङो नाऽस्त्रियाम्। --०-- चतुर्थः पादः १ णौ चङ्युपधाया ह्रस्वः। २ नागलोपिशास्वृदिताम्। ३ भ्राजभासभाषदीपजीव- मीलपीडामन्यतरस्याम्। ४ लोपः पिबतेरीच् चाभ्यासस्य। ५ तिष्ठतेरित्। ६ जिघ्रतेर्वा। ७ उश्चैत्। ८ नित्यं छन्दसि। ९ दयतेर्दिगि लिटि। १० ऋतश्च संयोगादेर्गुणः। ११ ऋच्छत्यृताम्। १२ शॄदृप्रां ह्रस्वो वा। १३ केऽणः। १४ न कपि। १५ आपोऽन्यतरस्याम्। १६ ऋद्दृशोऽङि गुणः। १७ अस्यतेस्थुक्। १८ श्वयतेरः। १९ पतं पुम्। २० वच उम्। २१ शीङः सार्वधातुके गुणः। २२ अयङ् यि क्ङिति। २३ उपसर्गाद् ह्रस्व ऊहतेः। २४ एतेर्लिङि। २५ अकृत्सार्वधातुकयोर्दीर्घः। २६ च्वौ च।