अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 82, कुल 102 में से
संदर्भ में पढ़ें८२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ५९ चवायोगे प्रथमा। ६० हेति क्षियायाम्। ६१ अहेति विनियोगे च। ६२ चाहलोप एवेत्यवधारणम्। ६३ चादिलोपे विभाषा। ६४ वैवावेति चच्छन्दसि। ६५ एकान्याभ्यां समर्थाभ्याम्। ६६ यद्वृत्तान्नित्यम्। ६७ पूजनात्पूजितमनुदात्तम्। ६८ सगतिरपि तिङ्। ६९ कुत्सने च सुप्यगोत्रादौ। ७० गतिर्गतौ। ७१ तिङि चोदात्तवति। ७२ आमन्त्रितं पूर्वमविद्यमानवत्। ७३ नामन्त्रिते समानाधिकरणे। ७४ सामान्यवचनं विभाषितं विशेषवचने। ---o--- द्वितीयः पादः १ पूर्वत्रासिद्धम्। २ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति। ३ न मु ने। ४ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। ५ एकादेश उदात्तेनोदात्तः। ६ स्वरितो वानुदात्ते पदादौ। ७ नलोपः प्रातिपदिकान्तस्य। ८ न ङि·सम्बुद्धयोः। ९ मादुपधायाश्च मतोर्वोऽ- यवादिभ्यः। १० झयः। ११ सञ्ज्ञायाम्। १२ आसन्दीवदष्ठीवच्चक्रीवत् कक्षीवद् रुमण्वच्चर्मण्वती। १३ उदन्वानुदधौ च। १४ राजन्वान्सौराज्ये। १५ छन्दसीरः। १६ अनो नुट्। १७ नाद् घस्य। १८ कृपो रो लः। १९ उपसर्गस्यायतौ। २० ग्रो यङि। २१ अचि विभाषा। २२ परेश्च घाङ्क्ययोः। २३ संयोगान्तस्य लोपः। २४ रात्सस्य। २५ धि च। २६ झलो झलि। २७ ह्रस्वादङ्गात्। २८ इट ईटि। २९ स्कोः संयोगाद्योरन्ते च।