अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 83, कुल 102 में से
संदर्भ में पढ़ेंअष्टमाध्याये द्वितीयः पादः ८३
[वामभागः / Left Column] ३० चोः कुः। ३१ हो ढः। ३२ दादेर्धातोर्घः। ३३ वा द्रुहमुह्ष्णुह्ष्णिहाम्। ३४ नहो धः। ३५ आहस्थः। ३६ व्रश्चभ्रस्जसृजमृजयजराज- भ्राजच्छशां षः। ३७ एकाचो बशो भष्झषन्तस्य स्ध्वोः। ३८ दधस्तथोश्च। ३९ झलां जशोऽन्ते। ४० झषस्तथोर्धोऽधः। ४१ षढोः कः सि। ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः। ४३ संयोगादेरातो धातोर्यण्वतः। ४४ ल्वादिभ्यः। ४५ ओदितश्च। ४६ क्षियो दीर्घात्। ४७ श्योऽस्पर्शे। ४८ अञ्चोऽनपादाने। ४९ दिवोऽविजिगीषायाम्। ५० निर्वाणोऽवाते। ५१ शुषः कः। ५२ पचो वः। ५३ क्षायो मः।
[दक्षिणभागः / Right Column] ५४ प्रस्त्योऽन्यतरस्याम्। ५५ अनुपसर्गात्फुल्लक्षीब- कृशोल्लाघाः। ५६ नुदविदोन्दत्राघ्राहीभ्योऽन्य- तरस्याम्। ५७ न ध्याख्यापॄमूर्च्छिमदाम्। ५८ वित्तो भोगप्रत्यययोः। ५९ भित्तं शकलम्। ६० ऋणमाधमर्ण्ये। ६१ नसत्तनिषत्तानूत्तप्रतूर्त्तसूर्त- गूर्तानि छन्दसि। ६२ क्विन्प्रत्ययस्य कुः। ६३ नशेर्वा। ६४ मो नो धातोः। ६५ म्वोश्च। ६६ ससजुषो रुः। ६७ अवयाः श्वेतवाः पुरोडाशच। ६८ अहन्। ६९ रोऽसुपि। ७० अम्नरूधरवरित्यभयथा छन्दसि। ७१ भुवश्च महाव्याहृतेः। ७२ वसुस्रंसुध्वंस्र्वनडुहां दः। ७३ तिप्यनस्तेः। ७४ सिपि धातो रुर्वा। ७५ दश्च। ७६ र्वोरुपधाया दीर्घ इकः।