भारतकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 85, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 85

अष्टमाध्याये तृतीयः पादः ८५ १३ ढो ढे लोपः। १४ रो रि। १५ खरवसानयोर्विसर्जनीयः। १६ रोः सुपि। १७ भोभगोअघोअपूर्वस्य योऽशि। १८ व्योर्लघुप्रयत्नतरः शाकटायनस्य। १९ लोपः शाकल्यस्य। २० ओतो गार्ग्यस्य। २१ उञि च पदे। २२ हलि सर्वेषाम्। २३ मोऽनुस्वारः। २४ नश्चापदान्तस्य झलि। २५ मो राजि समः क्वौ। २६ हे मपरे वा। २७ नपरे नः। २८ ङणोः कुक्टुक्शरि। २९ डः सि धुट्। ३० नश्च। ३१ शि तुक्। ३२ ङमो ह्रस्वादचि ङमुणित्यम्। ३३ मय उञो वो वा। ३४ विसर्जनीयस्य सः। ३५ शर्परे विसर्जनीयः। ३६ वा शरि। ३७ कुप्वोः ᳵक ᳶपौ च। ३८ सोऽपदादौ। ३९ इणः षः। ४० नमस्पुरसोर्गत्योः। ४१ इदुदुपधस्य चाप्रत्ययस्य। ४२ तिरसोऽन्यतरस्याम्। ४३ द्वित्रिश्चतुरिति कृत्वोऽर्थे। ४४ इसुसोः सामर्थ्ये। ४५ नित्यं समासेऽनुत्तरपदस्थस्य। ४६ अतः कृकमिकंसकुम्भपात्र- कुशाकर्णीष्वनव्ययस्य। ४७ अधःशिरसी पदे। ४८ कस्कादिषु च। ४९ छन्दसि वाप्राम्रेडितयोः। ५० कःकरत्करतिकृधिकृतेष्व- नदितेः। ५१ पञ्चम्याः परावध्यर्थे। ५२ पातौ च बहुलम्। ५३ षष्ठ्याः पतिपुत्रपृष्ठपारपद- पयस्पोषेषु। ५४ इडाया वा। ५५ अपदान्तस्य मूर्धन्यः। ५६ सहेः साडः सः। ५७ इण्कोः। ५८ नुम्विसर्जनीयशर्व्यवायेऽपि। ५९ आदेशप्रत्यययोः। ६० शासिवसिघसीनां च। ६१ स्तौतिण्योरेव षण्यभ्यासात्। ६२ सः स्विदिस्वदिसहीनां च।