अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 86, कुल 102 में से
संदर्भ में पढ़ें८६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ६३ प्राक्सितादड्व्यवायेऽपि। ६४ स्थादिष्वभ्यासेन चाभ्यासस्य। ६५ उपसर्गात्सुनोतिसुवतिस्यति- स्तौतिस्तोभतिस्थासेनायसेध- सिचसज्जस्वञ्जाम्। ६६ सदिरप्रतेः। ६७ स्तम्भेः। ६८ अवाच्चालम्बनाविदूरयोः। ६९ वेश्च स्वनो भोजने। ७० परिनिविभ्यः सेवसितसय- सिवुसहसुट्स्तुस्वञ्जाम्। ७१ सिवादीनां वाड्व्यवायेऽपि। ७२ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु। ७३ वेः स्कन्देरनिष्ठायाम्। ७४ परेश्च। ७५ परिस्कन्दः प्राच्यभरतेषु। ७६ स्फुरतिस्फुलत्योर्निर्निर्निविभ्यः। ७७ वेः स्कभ्नातेर्नित्यम्। ७८ इणः षीध्वंलुङ्लिटां धोऽङ्गात्। ७९ विभाषेटः। ८० समासेऽङ्गुलेः सङ्गः। ८१ भीरोः स्थानम्। ८२ अग्नेः स्तुतस्तोमसोमाः। ८३ ज्योतिरायुषः स्तोमः। ८४ मातृपितृभ्यां स्वसा। ८५ मातुःपितुर्भ्यामन्यतरस्याम्। ८६ अभिनिसः स्तनः शब्दसञ्ज्ञायाम्। ८७ उपसर्गप्रादुर्भ्यामस्तिर्यक्परः। ८८ सुविनिर्दुर्भ्यः सुपिसूतिसमाः। ८९ निनदीभ्यां स्नातेः कौशले। ९० सूत्रं प्रतिष्ठातम्। ९१ कपिष्ठलो गोत्रे। ९२ प्रष्ठोऽग्रगामिनि। ९३ वृक्षासनयोर्विष्टरः। ९४ छन्दोनाम्नि च। ९५ गवियुधिभ्यां स्थिरः। ९६ विकुशमिपरिभ्यः स्थलम्। ९७ अम्बाऽम्बगोभूमिसव्यापद्वित्रि- कुशेकुशङ्क्वङ्गुमज्जिपुञ्जि- परमेबर्हिर्दिव्यग्निभ्यः स्थः। ९८ सुषामादिषु च। ९९ एति सञ्ज्ञायामगात्। १०० नक्षत्राद् वा। १०१ ह्रस्वात्तादौ तद्धिते। १०२ निसस्तपतावनासेवने। १०३ युष्मत्तत्ततक्षुःष्वन्तःपादम्। १०४ यजुष्येकेषाम्। १०५ स्तुतस्तोमयोश्छन्दसि। १०६ पूर्वपदात्। १०७ सृजः। १०८ सनोतेरनः। १०९ सहेः पृतनात्तभ्यां च।