अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 87, कुल 102 में से
संदर्भ में पढ़ेंअष्टमाध्याये चतुर्थः पादः ८७ [वाम स्तम्भः] ११० न रपरसृपिसृजिस्पृशिस्पृहि- सवनादीनाम्। १११ सात्पदाद्योः। ११२ सिचो यङि। ११३ सेधतेर्गत्तौ। ११४ प्रतिस्तब्धनिस्तब्धौ च। ११५ सोढः। ११६ स्तम्भुसिवुसहां चङि। ११७ सुनोतेः स्यसनोः। ११८ सदेः परस्य लिटि। ११९ निव्यभिभ्योऽड्व्यवाये वा छन्दसि। --o-- चतुर्थः पादः १ रषाभ्यां नो णः समानपदे। २ अट्कुप्वाङ्नुम्व्यवायेऽपि। ३ पूर्वपदात्संज्ञायामगः। ४ वनं पुरगामिश्रकासिध्रका- सारिकाकोटराग्रेभ्यः। ५ प्रनिरन्तःशरेक्षुप्लक्षाप्रकार्ष्य- खदिरपीयूक्षाभ्योऽसंज्ञायामपि। ६ विभाषौषधिवनस्पतिभ्यः। ७ अह्नोऽदन्तात्। ८ वाहनमाहितात्। ९ पानं देशे। १० वा भावकरणयोः। [दक्षिण स्तम्भः] ११ प्रातिपदिकान्तनुम्विभक्तिषु च। १२ एकाजुत्तरपदे णः। १३ कुमति च। १४ उपसर्गादसमासेऽपि णोपदेशस्य। १५ हिनु मीना। १६ आनि लोट्। १७ नेर्गदनदपतपदघुमास्यति- हन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यति- चिनोतिदेग्धिषु च। १८ शेषे विभाषाकखादावषान्त उपदेशे। १९ अनितेरन्तः। २० उभौ साभ्यासस्य। २१ हन्तेरत्पूर्वस्य। २२ वमोर्वा। २३ अन्तरदेशे। २४ अयनं च। २५ छन्दस्यृदवग्रहात्। २६ नश्च धातुस्थोरुषुभ्यः। २७ उपसर्गादनोत्परः। २८ कृत्यचः। २९ णेर्विभाषा। ३० हलश्चेजुप्धात्।