आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 111, कुल 292 में से
संदर्भ में पढ़ेंत्रयोदशः खण्डः] अनाविलोपेसम् । ६१
कुमारमित्यनुच्यमाने जातामिति लिङ्गस्याविवक्षित- त्वात् कुमार्या अपि प्राप्नोति । आवृत्तैव कुमार्या इत्येतत्तु प्रवासादेत्येत्यस्मिन् विषये वक्ष्यते । यद्येवं कुमारग्रहणमेवा- स्तु । तत्रापि लिङ्गस्याविवक्षा प्राप्नोति । किञ्च 'एतेन गोदानं षोडशे वर्षे' इत्यत्र जातस्य षोडशवर्षं यथा गृह्येत, अनन्तर- स्योपनयनस्य षोडशवर्षं मा ग्राहीति । पुरान्यैरालम्भाद् या- वदन्ये न स्पृशेयुः तावदित्यर्थः । सर्पिर्मधुनी विषमघृते प्राशयेदिति सम्बन्धः । हिरण्यनिकाषं हिरण्यं निकष्य निघृष्य तेनैव हिरण्येन प्राशयेत् 'प्र ते ददामी'ति मन्त्रेण ॥ १ ॥
कर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवः सविता मेधां देवी सरस्वती मेधां ते अश्विनौ देवावाधत्तां पुष्करस्रजौ इति ॥ २ ॥
कर्णयोरुपनिधाय किं प्रकृतं हिरण्यं न मुखं कर्णयो- र्जपतीत्यर्थासिद्धत्वात् । यस्य मन्त्रस्य जपेन कुमारो मेधावी भवति स मेधाजननः । मेधां ते देवः सविता इत्यादि- र्मन्त्रः । उभयोः कर्णयोर्युगपज्जपस्याशक्यत्वादर्थान्मन्त्रस्या वृत्तिः ॥ २ ॥
अंसावभिमृशति अश्मा भव परशुर्भव हिरण्य- मस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शत- मिति । इन्द्रः श्रेष्ठानि द्रविणानि धेह्यस्मे प्रयन्धि मघ- वन्नृजीषिन्निति च ॥ ३ ॥
मध्ये इतिकरणाच्चशब्दाच्च तेन कल्पजेन मन्त्रेणैव द्वावंसौ युगपदभिमृश्य पश्चादितराभ्यामन्ते सकृदभिमृ- शति ॥ ३ ॥