आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 112, कुल 292 में से
संदर्भ में पढ़ें| ६२ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः |
|---|
नाम चास्मै दद्युः ॥ ४ ॥
बहुवचननिर्देशान्मातृपितृबान्धवा इति समुदिता नाम दद्युः । कालस्तु शास्त्रान्तरादागमयितव्यः । तत्र मनुः —
“नामधेयं दशम्यां तु द्वादश्यां वाथ कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥”
इति ॥ ४ ॥
तस्य लक्षणमाह —
घोषवदाद्यन्तरन्तस्थमभिनिष्टानान्तं द्व्यक्षरं चतुरक्षरं वा ॥ ५ ॥
वर्गाणां द्वितीयचतुर्था रहौ च घोषवन्तः तेषामन्यतमो वर्ण आदौ कर्तव्यः । यरलवा अन्तस्थाः तासामन्यतमो मध्ये कर्तव्यः । अभिनिष्टानो विसर्जनीयः सोऽन्ते कर्तव्यः । 'अभिनिसः स्तनः शब्दसंज्ञायाम्' इति षत्वम् । तच्च द्व्यक्षरं चतुरक्षरं वा भवति। हरो रुद्रो देवः हरदत्तो भवनाग इत्याद्युदाहरणानि ॥ ५॥
द्व्यक्षरं चतुरक्षरं वेति यदुक्तं तत् काम्यमपीत्याह —
द्व्यक्षरं प्रतिष्ठाकामश्चतुरक्षरं ब्रह्मवर्चसकामः ॥ ६ ॥
प्रतिष्ठाब्रह्मवर्चसे कुमारस्य, तत्संस्कारत्वात् ; न कर्तुः ॥ ६ ॥
युग्मानि त्वेव पुंसाम् ॥ ७ ॥
युग्मानि युग्माक्षराणि । एवकारात् तुशब्दाच्च पूर्वोक्तं सर्वमतन्त्रम् इदमेव तन्त्रमिति गम्यते यद् युग्मान्यक्षराणि ॥ ७ ॥