भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 113, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 113

त्रयोदशः खण्डः] अनाविलोपेसम् । ६३

अयुजानि स्त्रीणाम् ॥ ८ ॥

अयुग्मान्यक्षराणि पार्वती भवानीत्यादीनि । एवं ता- वत् संव्यवहारार्थस्य नाम्नः करणमुक्तम् ॥ ८ ॥

अथाभिवादनीयस्य नाम्नः करणमाह—

अभिवादनीयं च समीक्षेत तन्मातापितरौ वि- द्यातामोपनयनात् ॥ ९ ॥

अयमुपनीतो येनाभिवादयते तदभिवादनीयं नाम । करणे कृत्यप्रत्ययः । तदप्यस्मिन् काले समीक्षेत । पूर्वत्र दद्यु- रिति बहुवचनम् उत्तरत्र मातापितरौ विद्यातामिति द्विवच- नम् इह त्वेकवचनम् । तत्र न ज्ञायते कः समीक्षेतेति । नामकरणे यः प्रधानभूतः कर्ता स समीक्षेत । स च पिता । तदभावे तत्स्थानीयः । समीक्षणं च सम्यङ् निरूप्य करणम् । अतस्तदानीमेवाभिवादनीयमपि नाम पिता सम्यङ् निरूप्य कुर्यादिति, यथा परेण न ज्ञायते । ततस्तन्नाम- मात्रेऽपि ब्रूयाद् इदमस्याभिवादनीयं नामास्मिन्नवधत्स्वेति । तन्मातापितरौ विद्यातामोपनयनात् तदभिवादनीयं नाम मातापितरावेव विद्यातां जानीयातां नान्ये । कियन्तं कालम् ओपनयनात् आ उपनयनात् । उपनयने कृते तेनाभिवा- दयस्वेति कुमारायाचक्षीयाताम् ॥ ९ ॥

प्रवासादेत्य पुत्रस्य शिरः परिगृह्य जपति अङ्गाद- ङ्गात् संभवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि